पृष्ठम्:आर्षेयब्राह्मणम्.djvu/६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयः अध्यायः (२)


इन्द्राण्याः सामनी द्वे ॥ २.२.६॥

इन्द्रं वयं महाधनः (सा. १३०) इत्यत्र सामद्वयम् । इन्द्राम् इद्रं वायाम् (ग्राम. ४. २.१३०.१) इति क्रुष्टद्वितीयादिकं प्रथमम् । इन्द्राम् । इन्द्रं वयाम् (ग्राम. ४. २. १३०. २) इति मन्द्रादिकं द्वितीयम् । एते द्वे इन्द्राण्याः सामनी ॥ ६॥

इन्द्रस्य च सहस्रबाहवीयम् ॥ २.२.७ ॥

अपिबत् कद्रुवः सुतम् (सा. १३१) इत्यतेक साम । अपि- बत्कावस्सुताम् (ग्राम. ४. २. १३१. १) इति मन्द्रादिकम् । इन्द्रस्य च सहस्रबाहवीयम् । सहस्रबाहुशब्दोपेतम् , एतन्नामकम् । मत्वर्थीयश्छः ।। ७ ।। धृषतो मारुतस्य साम । भरद्वाजस्यादारसृत् । धृषतश्चैव मारुतस्य साम । भरद्वाजस्य चैवादारसृती ॥ ८ ॥ वयामेन्द्र त्यायवः (सा. १३२) इत्यत्र पञ्च सामानि । वयमा इन्द्रा (ग्राम. ४. २. १३२. १) इति द्वितीयक्रुष्टादिक प्रथमं मारुतस्य मरुत्पुत्रस्य धृषत एतन्नामकस्य ऋषेः साम । हाउवयमिन्द्रा (ग्राम. ४. २. १३२.२) इति मन्द्रादिकं द्वितीय भरद्वाजस्यादारसन्नामकम् । निर्वचनं ब्राह्मणे दर्शितम् - दिवोदासं वै भरद्वाजस्य पुरोहितं नानाजनाः पर्ययन्त इत्यादि । अनेन दारे नासृन्मेति त[द]दारसृतोऽदारसृत्वम् (ता. बा. १५. ३. ७) इति । वयमिन्द्रा (ग्राम. ४.२.१३२.३) इति मन्द्रादिकं तृतीय मारुतस्य धृषतः एतन्नामकस्य ऋषेः स्वभूतम् । बया-