६० आर्षेयब्राह्मणम्
आभरद्वसवे द्वे ॥ २.२.३ ॥
य आनयत् परावत (सा. १२७) इत्यस्यां सामद्वयम् । य आहाउ (ग्राम. ३. २. १२७.१) इति चतुर्थमन्द्रादिकम् । य आनयत् । परावाता (ग्राम. ३. २. १२७.२) इति चतुर्थमन्द्रादिकम् । एते द्वे आभग्द्वसवे आभरद्वसुसंबन्धिनी ॥ ३॥
तान्वे द्वे ॥२.२. ४॥
मान इन्द्राभ्या दिशः (सा. १२८) इत्यत्र सामद्वयम् । मान इन्द्राभियादाइशाः (ग्राम. ३.२.१२८.१) इति मन्द्रचतुर्थादिकं प्रथमम् । माना आइन्द्राभियादिशाः (ग्राम. ३. २. १२८. २) इति मन्द्रचतुर्थतृतीयादिक [द्वितीयम् । एते द्वे तान्वे । तन्वो नाम ऋषिः तेन दृष्टे ॥ ४ ॥
इन्द्रस्य रोहितकूलीये द्वे विश्वामित्रस्य वा ॥२.२.५॥
एन्द्र सानसि रयिम् (सा. १२९) इत्यत्र सामद्वयम् । एन्द्रमा (प्राम. ४.२. १२९.१) इति चतुर्थमन्द्रादिकमाद्यम् । एन्द्र सानसाइम् (ग्राम. ४. २. १२९. २) इति चतुर्थमन्द्रादिकं द्वितीयम् । एते द्वे इन्द्रस्य संबन्धिनी । रोहितकूलीये एतन्नामधेये । एतत्देवतानिबन्धनं नाम । अथवा विश्वामित्रस्य ऋषेः सामनी । अनयोर्विश्वामित्रसंबन्धित्वं ब्राह्मणे - रोहितकूलीयं भवति [आजिजित्यै ।] एतेन वै विश्वामित्रो रोहिताभ्यां रोहितकूल आजिमजयत् । विश्वामित्रो भरतानाम् इत्यादि । स एते सामनी अपश्यत् (ता. बा.१४.३.११-१३) इति ॥ ५ ॥