द्वितीयः अध्यायः (१) ५५
अपि वा आद्य साम मार्गीयवनामकम् । द्वितीयतृतीये आग्मी (साम्नी ?) रौद्रे । तुरीयम् मार्गीयवसहितं (संज्ञितं?) वा । अथवा सर्वाणि वा चत्वारि सामानि रौद्राणि मार्गीयवाणि वा ॥ २ ॥
आश्वम् ॥ २.१.३॥
यस्ते नूनं शतक्रतो (सा. ११६) इत्यत्रैक साम । यस्तेनूना. शतक्रताउ (ग्राम. ३. १. ११६. १) इति चतुर्थमन्द्रादिकम् आश्वम् अश्वः प्रजापतिः तत्संबन्धि । अत्र ब्राह्मणम् आश्वं भवति । अश्वो वै भूत्वा प्रजापतिः प्रजा असृजत (ता. ब्रा. ११. ३. ४-५) इत्यादिकमनुसंधेयम् ॥३॥
ऐटते द्वे ॥२.१.४॥
गाव उप वदावटे (सा. ११७) इत्यत्र सामद्वयमुत्पन्नम् । गावः । एगावाः (ग्राम. ३. १. ११७.१) इति चतुर्थमन्द्रादिकमाद्यम् । ओइगावाः (ग्राम. ३. १. ११७. २) इति द्वितीयतृतीयादिकं द्वितीयम् । ते द्वे ऐटते । इटतो नाम ऋषिः तेन दृष्टे सामनी ॥ ४ ॥
श्रौतकक्षे द्वे ॥२.१.५॥
अरमश्वाय ग यत (सा. ११८) इत्यत्र सामद्वयोत्पत्तिः । अराम् अश्वाय (ग्राम. ३. १. ११८. १) इति तृतीयद्वितीयादिकं प्रथमम् । अरमश्वाय- गायतारमश्वोवा (ग्राम. ३. १. ११८.२) इति चतुर्थमन्द्रादिकं द्वितीयम् । ते द्वे श्री (श्रु?) तकक्षस्य ऋषेः स्वभूते ॥ ५ ॥ तन्वस्य पार्थस्य सामनी द्वे । दावसोर्वाङ्गिरसस्योत्तरम् । वसिष्ठस्य निवेष्ट्वौ द्वौ इडानां वा संक्षार उत्तरम् ॥२.१. ६ ॥ तमिन्द्रं वजयामसि (सा. ११९) इत्यस्याम् ऋचि चत्वारि सामा- न्युत्पन्नानि । तत्र तमिन्द्रां वाजयामसी (३. १. ११९. १) इति द्वितीय-