पृष्ठम्:आर्षेयब्राह्मणम्.djvu/५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रथमः खण्डः

वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।

पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥१॥

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।

निर्ममे तमहं वन्दे विद्यातीर्थं महेश्वरम् ॥ २ ॥

रौद्रे द्वे मार्गीयवे द्वे ॥२.१.१॥

तद्वो गाय सुते सचा (सा. ११५) इत्यत्र चत्वारि सामानि समुत्पन्नानि । तद्वौ होवा (ग्राम. ३. १. ११५.१) इति मन्द्रचतुर्थादिकं प्रथमम् । तद्वोगाया (ग्राम. ३. १. ११५. २) इति मन्द्रादिकं द्वितीयम् । ते उभे रौद्रे रुद्रस्य एतत्संज्ञे सामनी। तद्वोगायमुतेसचाए (ग्राम. ३.१. ११५.३) इति मन्द्रादिकं तृतीयम् । तद्वोगायसुतेसचाए । पुरुहूताय सत्वनाइ (ग्राम. ३. १. ११५. ४) इति मन्द्रादिकं तुरीयम् । एते द्वे मार्गीयवे । मृगयुर्नाम देवः तत्संबन्धिनी। ओर्गुणः (पा. ६.४.१४६) इति गुणः । तथा च ब्राह्मणम् – मार्गीयवं भवति । देवा वा एतं मृगयु- रिति वदन्ति (तां. ब्रा. १४.९.११-१२) इति ॥ १॥ उक्तक्रमविपर्यासेन विकल्पान् दर्शयति--

अपि वा मार्गीयवं च रौद्रे च मार्गीयवं चैव । सर्वाणि वा रौद्राणि । सर्वाणि वा मार्गीयवाणि ॥ २.१.२॥