पृष्ठम्:आर्षेयब्राह्मणम्.djvu/५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२ आर्षेयब्राह्मणम्

ऋषिविकल्पं दर्शयति - पथो वा पाथंस्य वा इति । अथवा पथः पथिसंबन्धिनी वा । पाथंस्य अन्यगोत्रस्य ऋषेः स्वभूते सामनी । पकथ इति केवलस्योपादानात् अन्यगोत्र इत्यवगम्यते ॥ ४ ॥

दैवानीकं च ॥ १.१३.५॥

भद्रो नो अग्नीगहुत(सा. १११) इति अस्य सामैकम् । भद्रो नः (ग्राम. ३. १२. १११. १) इति चतुर्थतृतीयादिकं दैवानीकम् । दैवानीकॊ नाम ऋषिः तेन दृष्टम् । चकारो वाक्यभेदार्थः ॥ ५॥

गौतमं च साध्यं वा ॥ १.१३.६॥

यजिष्ठं त्वा ववृमहे (सा. ११२) इत्यत्र सामैकम् । याजि (ग्राम. ३. १२. ११२. १) इति तृतीयमन्द्रादिकं गौतमंसंम्बंन्धिनॊ गॊतमम्। तस्य संबन्धि । यद्वा साध्यम् । सिद्धिर्नाम ऋषिः तस्य संबन्धि ॥ ६ ॥

जमदग्नेश्च संवर्गः ॥ १.१३.७॥

तदग्ने धुम्नमा भर (सा. ११३) इत्यत्रैकं साम । तदग्ने घम्नम् (ग्राम. ३.१२. ११३. १) इति चतुर्थमन्द्रादिकं जमदग्नैः संवर्गनामधेयम् । सुवर्जाः सवर्गात् संवर्गः स्तोत्राणां फलप्रदम् इत्यर्थः ॥ ७ ॥

अगस्त्यस्य च राक्षोघ्नम् ॥ १.१३.८॥

यद्वा उ विशतिः (सा. ११४) इत्यत्र सामैकम् । यद्वा ऊविश्पतिः (प्राम. ३. १२. ११४.१) इति द्वितीयक्रुष्टद्वितीयादिकम् अगस्त्यस्य स्वभूतं