पृष्ठम्:आर्षेयब्राह्मणम्.djvu/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमः अध्यायः (१३) ५१

प्रसो अग्ने तयोतिभिः (सा. १०८) इत्यत्रैकं साम । प्रासोहाइ (ग्राम. ३. १२. १०८.१) इति क्रुष्ट द्वितीयादिकं भरद्वाजस्य ऋषेः स्वभूतं वाजभृत् वाजस्य बलस्य पोषकम् एतन्नामकम् । वा अथवा वाजाभृन्नाम । दीर्घ एव विशेषः । यद्वा वजाभर्मीयम् । सुवीराभिस्तरति वाजकर्मभिः (सा. १०८ ) इति वाजकर्मशब्दोऽस्ति । तद्युक्तमेतन्नामकं साम ॥२॥

सौभराणि त्रीणि ॥ १.१३.३ ॥

तं गूर्धया स्वर्णग्म् (सा. १०९) इत्यत्र सामत्रयमुत्पन्नम् । तं गूर्धायासुवर्णरोवा (ग्राम. ३. १२. १०९.१) इति मन्द्रचतुर्थादिकमाद्यम् । तं गूर्धयासुवर्णाराम् (ग्राम. ३. १२. १०९. २) इति मन्द्रचतुर्थमन्द्रादिक द्वितीयम् । तं गूधया स्वौहार्णागम (ग्राम. ३. १२. १०९. ३) इति मन्द्रचतुर्थादिक तृतीयम् । एतानि त्रीणि सुभरि म ऋषिः तेन दृष्टानि सामानि ॥३॥

पक्थस्य सौभरस्य सामनी द्वे । पथो वा पक्थस्य वा ॥१.१३.४॥

मा नो गृणीथा अतिथिम् (सा. ११०) इत्यस्यां सामद्वयम् । मानाः (ग्राम. ३. १२. ११०.१) इति चतुर्थम्वरादिकं प्रथमम् । मानोहाउ (ग्राम. ३. १२. ११०. २) इति चतुर्थमन्द्रादिक द्वितीयम् । ते उभे सौभरस्य सुभरिपुत्रस्य पक्थस्य एतन्नामकम्य ऋषेः म्वभृते सामनी । सौभरमित्यत्र