पृष्ठम्:आर्षेयब्राह्मणम्.djvu/४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमः अध्यायः (१२) ४९


अगस्त्यस्य चैव राक्षोघ्नम् ॥ १.१२.१० ॥

श्रुष्टयग्ने नवस्य मे (सा. १०६) इत्यस्यां सामैकम् । हाउश्रुष्टयग्नेनवस्यमेहाउ (ग्राम. ३. ११. १०६. १) इति मन्द्रस्वरादिकम् अगस्त्यस्य ऋषेः स्वभूतं राक्षोनमेतन्नामक साम ॥ १० ॥

इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आर्षेयब्राह्मणे प्रथमाध्याये द्वादशः खण्डः ॥ २॥