पृष्ठम्:आर्षेयब्राह्मणम्.djvu/४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४६ आर्षेयब्राह्मणम्

द्वितीयम् । ते उभे श्यावाश्वेन ऋषिणा प्रहितौ दृष्टावित्यर्थः । लिङ्गमविवक्षितम् ॥ २ ॥

प्रजापतेः श्रुधीये द्वे श्रुद्ध्ये वा श्रद्धे वा सत्ये वा सामनी वा ॥ ३ ॥

अग्ने वाजस्य गोमतः (सा. ९९) इत्यस्यां सामद्वयमुत्पन्नम् । अग्ने वाजास्य (ग्राम. ३. ११. ९९. १) इति चतुर्थमन्द्रादिकं प्रथमम् । अग्नेवाजस्यगोहिस्थितमतोहोहाइ (ग्राम. ३. ११. ९९. २) इति मन्द्रचतुर्थादिकं द्वितीयम् । ते द्वे प्रजापतेः श्रुधीये श्रुधियाशब्दयुक्ते एतन्नामके सामनी । श्रुधिया एहिया इति साम्नि विद्यमानत्वात् । तथाच ब्राह्मणम् - प्रजापतिः पशूनमृजत । ते अस्मात् सृष्टा अपाक्रमन् । तानेतेन साम्ना श्रुधिया एहिया इत्यन्वह्वयत् । स उपावर्तत । (ताम्. ब्रा. १५. ५. ३५) इति ॥ ३ ॥

प्रजापतेः सदोहविर्धानानि त्रीणि । सदः पूर्वम् । हविर्धाने उत्तरे ॥ १.१२.४॥

अग्ने यजिष्ठः (सा. १००) इत्यत्र सामत्रयम् उत्पन्नम् । तत्र