सामग्री पर जाएँ

पृष्ठम्:आर्षेयब्राह्मणम्.djvu/२६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६७ षष्ठाध्याये चतुर्थपर्व (२)

अथ महानाम्नीनामृषिसंबन्धेन योगरूढ्या च संज्ञाचतुष्टयं दर्शयति-

ऐन्द्यो महानाम्न्यः प्रजापतेर्वा । विष्णोर्वा । विश्वामित्रस्य वा । सिमा वा । मट्ण्या वा । अध्वरमा(गा?) वा । शक्वर्यो वा । शक्वर्यो वा ॥ ६.४.२.१५ ॥

विदा मघवन् (सा. ६५१) इत्याद्याः प्रकृत्या (त्यां?) तिस्रः [तिस्रः ऋचः ।] सर्वयानसिद्धिः (सर्वासां ऋचा ?) तु नवसंख्या। [एताः] ऋचः ऐन्यः इन्द्रदृष्टा महानाम्न्यः (आ. गा. ६.२.२९१-२९३)। इन्द्रवृत्रासुरयोः संग्रामे इन्द्रस्य जयार्थम् एताभिर्महान् घोष आसीदिति महानाम्न्य इति नामैतासां संपन्नम् । वा अथवा एता ऋचः प्रजापतेः संबन्धिन्यः प्रजापत्यृषिका इत्यर्थः । यद्वा विष्णोर्वा । विष्णुर्वा एतासामृषिः । विश्वामित्रस्य वा महानाम्न्यः । तदृषिका इत्यर्थः । यद्वा एता ऋचः सिमाः। एताभिवृत्रासुरस्य सीमानं शिरो- मध्यदेश इन्द्रोऽभिनदिति सिमा नाम । यद्वा [मटण्याः।] अनुकरणशब्दोऽयम् । एनाभिर्महाशब्दमिन्द्रोऽगादिति एतन्नामिकाः । एताभिरिन्द्रोऽध्वरम् [अ] गादिति अध्वरमाः (गाः?)। अथवा शक्कर्यः । एताभिर्वृतं हन्तुम् इन्द्रः शक्तोऽभूदिति एताः शक्करीसंज्ञकाः । एताः पञ्चविंशब्राह्मणे त्रयोदशाध्याये प्रदर्शिताः। इन्द्रः प्रजापतिमुपाधावद् वृतं हनानीति । तस्मा एतच्छन्दोभ्य इन्द्रियं वीर्य निर्माय प्रायच्छदेतेन शक्नुहीति तच्छक्करीणां शक्करीत्वम् । सीमान-