पृष्ठम्:आर्षेयब्राह्मणम्.djvu/२६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

षष्ठाध्याये चतुर्थपर्व (२)

सामद्वयम् । हाउ (त्रिः) सत्याओवा इत्यादि उद्यामेषिरजाः (आ. गा. ६. २. २८४ ) इति द्वितीयादिकम् । हाउ (त्रिः) ऋताओवा इत्यादि उद्यामेषिरजाः (आ. गा. ६.२.२८५) इति द्वितीयादिकम् । एते षडैन्द्राः परिधयः ॥ ८ ॥

[अष्टादशस्य नाम दर्शयति-]

ऋतूनां वागादि पित्र्यम् ॥ ९ ॥ वाङ्मनः प्राणः (आ. गा. ६. २. २८६) इत्यादि ऋगक्षररहित- मष्टादश [-कम् ] ऋतूनां वागादिपित्र्यात्मकम् । वामनःप्राणादेः पित्र्य- पदस्य च तत्र विद्यमानत्वात् ॥ ९ ॥

एकोनविंशस्य गानागानपक्षं दर्शयति--

अन्त्यं वैकल्पिकम् ॥ १० ॥

अन्तर्देवेषुरोचासाइ (आ. गा. ६.२.२८७) इत्यत्रोत्पन्नम् अन्त्यं तत् वैकल्पिकम् । एकविंशत्यनुगानपक्षे न गेयम् । द्वाविंशत्यनुगानपक्षे तु गीयते इत्यर्थः ॥ १० ॥

एतत्सामभेदेन नामद्वयं दर्शयति--

तन्मित्रावरुणयोश्चक्षुरित्याचक्षते । श्रोत्रं च तदेवैके ॥ ११ ॥

अन्तर्देवेष्वित्यत्र उत्पन्नं साम मित्रावरुणयोश्चक्षुः इत्याचक्षते। तदेव श्रोत्रमित्येके आहुः ॥ ११ ॥