पृष्ठम्:आर्षेयब्राह्मणम्.djvu/२६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६४ आर्षेयब्राह्मणम्

आयं गौः पृश्निरक्रमीत् (सा. ६३०) इत्यत्रै साम । हाउ (त्रि वा ईन्दुः इत्यादि पुरस्तोभयुक्त आयङ्गौः (आ. गा. ६. २. २७६) इत्यादि अन्तश्चरति रोचना (सा. ६३१) इत्यत्रैक साम । हाउ (त्रिः) वा भूत (आ. गा. ६.२. २७७) इत्यादि । त्रिंशद्धाम वि राजति (सा. ६३२ इत्यत्रैकं साम । हाउ (त्रिः) वा आपः (आ. गा. ६.२.२७८) इत्यादि एतास्तिस्रः सार्पराज्याः । अथवा सर्पाणां वा । यद्वा अर्बुदर वा ॥ ६॥

[एकादशस्य नाम दर्शयति -]

सर्पस्य घर्मरोचनमिन्द्रस्य वा ॥ ६.४.२.७॥

उयल्लोकानरोचयः (आ. गा. ६.२. २७९) इति स्तोभमात्रोत्पन्न साम मर्पस्य धर्मरोचनम् इन्द्रस्य धर्मरोचनं वा एकादशकम् ॥ ७ ॥

[द्वादशादीनां षण्णां नामान्यविभज्य दर्शयति--

षडैन्द्राः परिधयः ॥ ६.४.२.८॥

[उदु त्यं जातवेदसं (सा. ३१) इत्यत्र सामद्वयम् ।] हाउ (त्रिः भ्राजाओवा दीदिहिविश्वतस्पृथूः (थुः?)। उदुत्यजातवाइदासाम् (आ गा. ६. २. २८०) इति द्वितीयादिकम् । हाउ (त्रिः) शुक्राओवा इत्यादि उदुत्यंजात (आ. गा. ६. २. २८१) इति द्वितीयादिकम् । तरणिर्विश्व दर्शतः (सा. ६३५) इत्यत्र सामद्वयम् । हाउ (त्रिः) भूताओवा इत्यादि तरणिर्विश्व (आ. गा. ६. २. २८२) इत्यादि [द्वितीयादिकम्] । हाउ (त्रिः) तेजाओवा इत्यादि तरणिविश्वा (श्व?) दार्शाताः (आ. गा. ६. २ २८३) इति द्वितीयादिकम् । उद्यामेषि रजः पृथु (सा. ६३८) इत्यत्र -