पृष्ठम्:आर्षेयब्राह्मणम्.djvu/२३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३७ षष्ठाध्याये द्वितीयपर्व (५)

वार्कजम्भे द्वे ॥ ६.२.५.४॥

प्रव इन्द्राय बृहते (सा. २५७) इत्यत्र सामद्वयम् । हाउप्रव- इन्द्रायबृहानाइ (आ. गा. ३. ५. १३८) इति द्वितीयक्रुष्टादिकम् । हाउ (त्रिः)। विश्वेषाम् इत्यादि प्रवइन्द्राय (आ. गा. ३. ५. १३९) इति द्वितीयक्रुष्टादिकम् । एते द्वे वार्कजम्मे एतन्नामधेये ॥ ४ ॥

ईष्विश्वज्योतिषी द्वे ॥ ६.२.५.५॥

असावि देवं गोऋजीकम् (सा. ३१३) इत्यत्र सामद्वयम् । हाह । हा । ओवा इत्यादि आसा (आ. गा. ३. ५. १४०) इति तृतीयद्वितीयादिकम् । इयो इत्यादि [ असा विदाइ] (आ. गा. ३. ५.१४१ ) इति क्रुष्टद्वितीयादिकम् । एते द्वे ईपविश्वज्योतिषी। ईपपदविश्वज्योतिप्पदयुक्त सामनी । पूर्वस्य ईषिति निधनम् । उत्तरग्य विश्वज्योतिरिति ।। ५ ॥

इति श्रीसायणाचार्यविरचित माधवाय सामवेदार्थप्रकाशे आयब्राह्मणभाष्ये षष्ठाध्याये द्वितीयपर्वणि पञ्चमः खण्डः ॥ ५ ॥