पृष्ठम्:आर्षेयब्राह्मणम्.djvu/२३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमः खण्डः

भद्रश्रेयसी द्वे ॥६.२.५.१॥

इमा नु कं भुवना सीपध (सा. ४५२) इत्यत्र सामद्वयम् । होइया । (त्रिः) । इत्यादि इमानुकम् (आ. गा. ३. ५. १३२) इति क्रुष्ट- द्वितीयादिकम् । होइया (त्रिः) इत्यादि इमानुकम् (आ. गा. ३. ५. १३३) इति क्रुष्टद्वितीयादिकम् । एते द्वे भद्रश्रेयःपदयुक्ते एतन्नामधेये सामनी । पूर्वस्य भद्रमिति निधनम् । द्वितीयस्य श्रेया इति ॥ १ ॥

तन्त्वोतुनी द्वे ॥६.२.५.२॥

अचिक्रदद् वृषा हरिः (सा. ४९७) इत्यत्र सामद्वयम् | हाउ- तन्तुः इत्यादि अचिक्रदद् (आ. गा. ३. ५. १३४) इति द्वितीयादिकम् । हावोतुः इत्यादि अचिक्रदद्वपाहराइः (आ. गा. ३. ५. १३५) इति द्वितीयादिकम् । एते द्वे तन्त्रोतुनी। तन्तुशब्दौतुशब्दयुक्त एतन्नामधेये सामनी ॥२॥

सहोमहसी द्वे ॥ ६.२.५.३॥

पिबा सोममिन्द्र मन्दतु त्वा (सा. ३९८) इत्यत्र सामद्वयम् । हाउ (त्रिः) । पिबासोमाम् (आ. गा. ३. ५.१३६) इति द्वितीयक्रुष्टादिकम् । हाउ (त्रिः)। पिबासोममिन्द्रमन्दतुत्वा (आ. गा. ३. ५. १३७) इति द्वितीयक्रुष्टादिकम् । एते द्वे सहोमहसी सहोमहःशब्दयुक्ते एतत्संज्ञे । पूर्वस्य सहाः इति निधनम् । द्वितीयस्य महाः इति ।। ३ ।।