पृष्ठम्:आर्षेयब्राह्मणम्.djvu/२३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुर्थः खण्डः


यण्वापत्ये द्वे ॥६.२.४.१॥

इन्द्रमिद्गाथिनो बृहत् (सा. १९८) इति तृचे सामैकम् । इन्द्रमिद्गाथिनोबृहत् (आ. गा. ३. ४. १२२) इति क्रुष्टद्वितीयादिकम् । उच्चा ते जातमन्धसः (सा. ४६७) इति तृचे सामैकम् । हाउ (त्रिः) उच्चातेजातमान्धसा (आ. गा. ३. ४.१२३) इति द्वितीयक्रुष्टादिकम् । एते द्वे यण्वापत्ये । आद्यस्य यण्वमिति नाम । उत्तरस्य अपत्यमिति ॥ १ ॥

आयुर्नवस्तोभे द्वे ॥६.२.४.२॥

विश्वतो दावन् (सा. ४३७) इत्यत्र सामद्वयम् । हाउ (त्रिः) विश्वतोदावन् (आ. गा. ३. ४. १२४) इति द्वितीयक्रुष्टादिकम् । विश्वतोदावन् विश्वतोन आ (आ. गा. ३. ४.१२५) इति क्रुष्टद्वितीयादिकम् । एते द्वे आयुर्नवस्तोभे। आयुर्नवस्तोभ इत्युक्ते पूर्वस्य आयुः उत्तरस्य ओवा इत्यादयो नवस्तोभाः । एतन्नामधेये सामनी । २ ॥

रायोवाजीयबार्हद्गिरे द्वे ॥६.२.४.३॥

स्वादोरित्था विषूवतः (सा. ४०९) इत्यत्रैकं साम । एस्वादोः (आ. गा. ३. ४.१२६) इति क्रुष्टद्वितीयादिकम् । इन्द्रो मदाय वावृधे (सा. ४११) इत्यत्रैकं साम । इन्द्रोमदा (आ. गा. ३. ४.१२७) इति द्वितीयादिकम् । एते द्वे रायोवाजीयबार्हद्गिरे। पूर्ंव रायोवाजीयम् । रायोवाजो नाम यतिः तत्संबन्धि । द्वितीयं बार्हद्गिरम् । बृहद्गिरिर्नामपि यतिः। तत्संबन्धि । एतदाख्यायिका तु ब्राह्मणे – दुःखेन इन्द्रो