पृष्ठम्:आर्षेयब्राह्मणम्.djvu/२३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षष्ठाध्याये द्वितीयपर्व (३) २३३


धेनुपयसी द्वे ॥ ६.२.३.४॥

स्वादिष्ठया मदिष्टया (सा. ४६८) इत्यत्रैक साम । हाउ (त्रिः) ओहाउ (ओहा?) इत्यादि स्वादिष्ठया (आ. गा. ३.३.११८) इति द्वितीयतृतीयादिकम् । अग्ने युङ्वा हि ये तव (सा. २५) इत्यत्र सामैकम् । इयो । इया इत्यादि अग्नेयुट्याहीयेतवा (आ. गा. ३. ३. ११९) इति द्वितीयतृतीयादिकम् । एते द्वे धेनुपयसी क्रमेण धेनुपयःशब्दयुक्त एतन्नामधेये । ए धेनु इति हि पूर्वस्य निधनम् । एपयाः इति उत्तरस्य निधनम् ॥ ४ ॥

स्वर्ज्योतिषी द्वे ॥ ६.२.३.५॥

अरूरुचदुपसः पृश्निरग्रिय (सा. ५९६) इत्यत्र सामद्वयम् । हाउ (त्रिः) स्वर्विश्वम् इत्यादि अरूरुचत् (आ. गा. ३. ३. १२०) इति द्वितीय क्रुष्टादिकम् । हाउ (त्रिः) ज्योतिर्विश्वम् इत्यादि अरूरुचत् (आ. गा. ३. ३. १२१) इति द्वितीयक्रुष्टादिकम् । एते स्वज्योतिषी, - स्वःशब्दयुक्तं पूर्वं साम; ज्योतिःशब्दयुक्तमुत्तरम् ॥ ५ ॥

इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आयब्राह्मणभाष्ये षष्ठाध्याये द्वितीयपर्वणि तृतीयः खण्डः ।। ३ ।।