पृष्ठम्:आर्षेयब्राह्मणम्.djvu/२३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयः खण्डः

द्यौते द्वे । द्वैगते वा ॥६.२.३.१॥

यच्छक्रासि परावति (सा. २६४) इत्यत्र सामद्वयम् । हाउ- यच्छक्रासी (आ. गा. ३. ३. ११२) इति द्वितीयादिकम् । ईय। ईया इत्यादि [इया ] हाउ। याच्छा (आ. गा. ३. ३. ११३) इति तृतीय- चतुर्थादिकम् । एते द्वे द्यौते अथवा द्वैगते । द्विगन्नामको भार्गव ऋषिः । तत्संबन्धिनी। द्विगद्वा एतेन भार्गवः (ता. बा. १४. ९. ३२) इति ह्यत्र ब्राह्मणम् । तस्मादेते द्वैगते ॥१॥

तास्पन्द्रे द्वे । तास्विन्द्रे वा ॥ ६.२.३.२ ॥

अभी नवन्ते अद्रुहः (सा. ५५०) इत्यत्र सामद्वयम् । आभीनव- तआनुहआउवा (आ. गा. ३. ३. ११४) इति द्वितीयक्रुष्टादिकम् । आमी- नवतआउवा (आ. गा. ३. ३. ११५) इति द्वितीयक्रुष्टादिकम् । एते द्वे तास्पन्द्रे एतन्नामधेये । अथवा ताखिन्द्रे ॥ २ ॥

तौरश्रवसे द्वे ॥ ६.२.३.३॥

यदिन्द्र शासो अव्रतम्, (सा. २९८) इत्यत्र सामद्वयम् । यदिन्द्र- शासोअव्राताम् (आ. गा. ३. ३. ११६) इति द्वितीयक्रुष्टादिकम् । यादिन्द्र- शासोअव्राताम् (आ. गा. ३. ३. ११७) इति तृतीयमन्द्रादिकम् । एते द्वे तौरश्रवसे । तुरश्रवा नाम ऋषिः । तेन दृष्टे । तथा च ब्राह्मणम् - तौरश्रवसे कार्य । तुरश्रवसश्च वै पारावतानां च सोमौ संसुतावास्ताम् । तत एते तुरश्रवाः सामनी अपश्यत् (तां. बा. ९. ४. ९-१०) इति ॥ ३ ॥