पृष्ठम्:आर्षेयब्राह्मणम्.djvu/२२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षष्ठाध्याये प्रथमपर्व (६) २२७

द्वितीयादिकम् अग्नेः प्रियनामधेयम् । प्रियहोइ इति प्रियशब्दो विद्यते । तघुक्तं साम ।। १६ ॥

सर्पसाम कल्माषं व ॥ ६.१.६.१७ ॥

कया नश्चित्र आ भुवत् (सा. १६९) इत्यत्रैकं साम । वीहासवाइ इत्यादि कयानश्चाइ (आ. गा. २. ७.८८) इति द्वितीयक्रुष्टादिकं सर्पसाम । उदरसर्पिणस्तेभ्योनमाः इति निधने सर्पशब्दस्य विद्यमानत्वात् । अथवा कल्माषनामधेयम् ॥ १७ ॥

स्वर्ग्यं सेतुसाम । पुरुषगतिर्वा । विशोकं वा ॥ १८ ॥

अहमस्मि प्रथमजा ऋतस्य (सा. ५९४) इत्यत्रैकं साम । हाउ (त्रिः।) । सेतुंस्तर इत्यादि अहमस्मिप्रथमजा (आ. गा. २. ७.८९) इति द्वितीयक्रुष्टादिकं स्वर्ग्यं स्वर्गाय गीतं सेतुषाम सेतुशब्दयुक्तमेतत् साम । अथवा [पुरुषगतिः] पुरुषगतिनामकम् । एषागतिशब्दयुक्त [म् एतत् ] विद्यते । तदुपेतम् । यद्वा विशोकं शोकरहितम् एतत्संज्ञं साम । एतदमृतम् इति स्वर्गवाचकपदस्य विद्यमानत्वात् ॥ ८ ॥

इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आयब्राह्मणभाष्ये षष्ठाध्याये प्रथमपर्वणि षष्ठः खण्डः ॥ ६॥

॥ आरण्यकप्रथमपर्वभाष्यं समाप्तम् ॥