पृष्ठम्:आर्षेयब्राह्मणम्.djvu/२२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२६ आर्षेयब्राह्मणम्

पविमन्ति महासामानि । शर्वस्य प्रथमोत्तमे आद्यान्तिमे शर्वस्य सामनी । रुद्रस्य त्रीणि । मध्यमानि त्रीणि रुद्रस्य सामानि ।। १२ ।।

अत्र विकल्पं दर्शयितुं प्रतिजानीते--

अथापरम् । अग्नेर्हरसी द्वे । क्षुरस्य हरसी द्वे । मृत्योर्हरः पञ्चमम् । सामनी वा त्रिकाद्ये लोकानाम् । शान्ति-रुत्तरम् ॥ ६.१.६.१३ ॥

अथापरमिति । आद्ये द्वे अग्नेहर्रसी। मध्यमे सुरस्य हरसी द्वे । मृत्योहरः पञ्चमं वा। अथवा त्रिकाघे सामनी लोकानां सामनी । शान्तिरुत्तरम् ।। १३ ॥

पञ्चनिधनं वामदेव्यम् ॥ ६.१.६.१४ ॥

कया नश्चित्र आ भुवत् (सा. ६८२) इत्यत्रैका साम । होवाहा । आइ। हिया इत्यादि कयानश्चाइ (आ. गा. २. ७. ८५) इति दिकं पञ्चनिधनं वामदेव्यम् । (१) इहप्रजामिहरयिरराणोहस् , (२) रायस्पोपायसुकृतायभूयसेहम् , (३) अगन्वाममिदंबृहद्धस् , (४) इदंबाममिदंबृहद्धस्, (५) चराचगयबृहतइदंवाममिदंबृहद्धस्- इत्येतैः पञ्चभिनिधनैरुपेतम् ॥ १४ ।।

इन्द्रस्य महावैराजम् । वसिष्ठस्य वा ॥ ६.१.६.१५ ॥

पिबा सोममिन्द्र मन्दतु त्वा (सा. ९२७) इत्यत्रैक साम । होइयाहोइयाहोइया पित्र (आ. गा. २.७.८६) इत्यादि द्वितीयतृतीया- दिकम् इन्द्रस्य महावैराजम् । वसिष्ठस्य ऋपेर्महावैराजं वा ॥ १५ ॥

अग्नेश्च प्रियम् ॥ ६.१.६.१६ ॥

अग्न आ याहि वीतये (सा. ६६०) इत्यत्रैक साम । हाउ(त्रिः) । प्रियहोइ इत्यादि अन्न आयाहिवाइतायाइ (आ. गा. २. ७.८७) इत्यादि