पृष्ठम्:आर्षेयब्राह्मणम्.djvu/२१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयः खण्डः

वसिष्ठजमदग्न्योरों द्वौ । अगस्त्यजमदग्न्योर्वा ॥६.१.३.१॥

इन्द्रं नरो नेमधिता हवन्ते (सा. ३१८) इत्यत्र सामद्वयम् । इयाहोइ इत्यादि इन्द्रंनरो (आ. गा. १. ३. २८) इति तृतीयद्वितीयादिकम् । ओहोइहा । इन्द्रन्नरो (आ. गा. १. ३. २९) इति तृतीयद्वितीयादिकम् । एते द्वे वसिष्ठजमदग्नेरौं । अथवा अगस्त्यजमदग्नेर्वा ॥ १ ॥

स्वाशिरामर्कः ॥६.१.३.२॥

स्वादिष्ठया मदिष्ठया (सा. ४६८) इत्यत्रक साम । अया- मायाम् इत्यादि स्वादिष्ठया (आ. गा. १. ३. ३०) इति तृतीयद्वितीयादिकं वाशिरामर्कः । वाशिरः प्राणाः तेषां साम । तथा च ब्राह्मणम् - खाशिरामर्को भवतीत्यादि प्राणा वै स्वाशिरः (तां ब्रा. १४. ११. ८-९) इत्यादि ॥ २॥

दीर्घतमसोऽर्कः ॥६.१.३.३॥

धर्ता दिवः पवते (सा. ५५८) इत्यत्रैक साम । हाउ- (त्रिः) । औहोवाएहियाहाउ । धर्ता (आ. गा. १. ३. ३१) इति द्वितीय- क्रुष्टादिकं दीर्घतमस ऋषेरर्कः ॥ ३ ॥

मरुतामर्को द्वौ । संस्तोभो वोत्तरः ॥ ६.१.३.४ ॥

प्र व इन्द्राय बृहते (सा. २५७) इत्यत्र सामद्वयम् । हाउ (त्रिः) प्रवइन्द्रायबृहताइ (आ. गा. १. ३. ३२ ) इति द्वितीयादिकम् । हाउ (त्रिः)। सन्त्वानोनवुः इत्यादि प्रवइन्द्रायबृहताइ (आ. गा. १. ३. ३३) इति