पृष्ठम्:आर्षेयब्राह्मणम्.djvu/२१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आर्षेयब्राह्मणम्

द्वितीयक्रुष्टादिकम् । एते द्वे मरुतामकौं । अथवा उत्तरः द्वितीय संस्तोभः स्तोभसंयुक्तम् । स्तोभवानेतन्नामकम् ॥ ४ ॥

अग्नेरर्कः ॥ ६.१.३.५॥

अग्निर्मूर्धा दिवः ककुत् (सा. २७) इत्यत्रैक साम होहोवा । ई। ईया इत्यादि अग्निम॑र्धादिवाःककृत (आ. गा. १. ३. ३४) इति क्रुष्टद्वितीयादिकम् अग्नेरर्कनामकम् ॥ ५ ॥

प्रजापतेश्वार्कः ॥ ६.१.३.६॥

अयं पूपा (सा. ५४६) इत्यत्र सामैकम् । होवा । ईया । औहोआ । आयाम् (आ. गा. १. ३. ३५) इति क्रुष्टद्वितीयादिकं प्रजापतेरर्कसंज्ञकम् ॥ ६ ॥

इन्द्रस्याओं द्वौ । त्रिष्टुभां वा ॥ ६.१.३.७ ॥

इन्द्रो राजा जगतश्चर्षणीनाम् (सा. ५८७) इत्यत्र सामद्वयम् । हावीन्द्राः । राजा । जगतः (आ. गा. १. ३. ३६) इति क्रुष्टद्वितीयादिकम् । इन्द्रोहाउ । राजा (आ. गा. १. ३. ३७) इति क्रुष्टद्वितीयादिकम् । एते द्वे इन्द्रस्यार्कनामधेये । अथवा त्रिष्टुभामर्को ॥ ७ ॥

अर्कशिरश्च ॥ ६.१.३.८॥

यस्येदमा रजोयुजः (सा. ५८८) इत्यत्रैक साम । हाउयास्या । इदमारजोयूजाः (आ. गा. १. ३. ३८ ) इति क्रुष्टद्वितीयादिकम् । अर्कशिर एतन्नामधेयम् ।। ८॥

अर्कग्रीवाश्च ॥ ६.१.३.९॥

पातीः (त्रिः) । दिवाआ (आ. गा. १. ३. ३९) इत्यादिस्तोभमात्र साम । तस्यार्कग्रीवा इति नाम । एतेनार्कशब्देन ज्योतिरभिधीयते । ए । स्वज्योतिरिति निधनं तद् ग्रीवास्थानीयमित्यर्थः ॥ ९ ॥