पृष्ठम्:आर्षेयब्राह्मणम्.djvu/२१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षष्ठोऽध्यायः (२)

१. २. १९) इति द्वितीयादिकम् । अन्यस्तोभविशिष्टत्वात् पुनरपि गानम् । तवेदिन्द्रावमं वसु (सा. २७०) इत्यत्रैक साम । औहोवाऔहोवाऔहोवा। तवेदिन्द्रावमंवसु (आ. गा. १.२.२०) इति द्वितीयतृतीयादिकम् । एते ऋद्वयाश्रिते आङ्गिरसे ॥ ४ ॥

बार्हस्पत्यं च ॥ ६.१.२.५॥

तवेदिन्द्रावमं वसु (सा. २७०) इत्यत्रैक साम । औहोऔहोवा इत्यादि तवेदिन्द्रायमंवसु (आ. गा. १. २. २१) इति क्रुष्टद्वितीयादिकं बार्हस्पत्यम् । स्तोभान्तरविशिष्टत्वात् पुनरपि गीतम् ॥ ५ ॥

भारद्वाजं च ॥ ६.१.२.६॥

आ त्वा सहस्रमा शतम् (सा. २४५) इत्यत्रैक साम । हाउहाउहाउ । औहोआत्वासहस्रमाशतम् (आ. गा. १. २. २२) इति द्वितीयादिक भारद्वाजम् ॥ ६॥

आथर्वणं च ॥ ६.१.२.७ ॥

शं नो देवीरभिष्टये (सा. ३३) इत्यत्रैक साम । उहुवाओवा । औहोवा । शन्नोदेवीः (आ. गा. १. २. २३) इति द्वितीयादिकम् आथर्व- णम् ॥ ७॥

नारद्वसवं च ॥ ६.१.२.८॥

इन्द्र ज्येष्ठं न आ भर (सा. ५८६) इत्यत्रैक साम । हाउहाउ- हाउ। औहोइन्द्रज्येष्ठनआभराए (आ. गा. १. २. २४) इति द्वितीय- तृतीयादिकं नारद्वसवम् ॥ ८॥