पृष्ठम्:आर्षेयब्राह्मणम्.djvu/२१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयः खण्डः


वरुणस्य देवस्थानम् ॥६.१.२.१॥

पिबा सुतस्य रसिनः (सा. २३९) इत्यत्र सामैकम् । हाउसुतापिबा ॥ स्यरसिनाः । होइहोइहोइ (आ. गा. १. २.१५) इति द्वितीयादिकं वरुणस्य देवस्थान [समुद्रशब्दयुक्तम्] । समुद्रसमचूकुपन इति निधने समुद्रशब्दो विद्यते ॥ ४ ॥

बृहदेवस्थानम् ॥ ६.१.२.२॥

बृहदिन्द्राय गायत (सा. २५८) इत्यत्रै साम । हाउहाउहाउ इत्यादि बृहदिन्द्रायगायाता (आ. गा. १. २. १६) इति द्वितीयादिकं बृह- च्छब्दयुक्तं देवस्थानम् एतत्संज्ञम् ॥ २ ॥

ऐरयैरिणे द्वे ॥ ६.१.२.३ ॥

पुनानः सोम धारय (सो. ५११) इत्यत्रैक साम। ऐरयात् इत्यादि पुनानःसोम (आ. गा. १. २. १७) इति क्रुष्टद्वितीयादिकम् । अमि त्वा वृषभा सुते (सा. १६१) इत्यत्रैकं साम । हावाहो( वो?) हाउ । अभित्वावार्षाभासुताइ (आ. गा. १. २. १८) इति द्वितीयादिकम् । एते द्वे ऐरयैरिणे ॥ ३ ॥

आङ्गिरसे द्वे ॥ ६.१.२.४ ॥

पुनानः सोम धारया (सो. ५११) इत्यत्रैक साम । हाउ- हाउहाउ । हौवाओ । हाहाउवा। पुनानः सोमधारया (आ. गा.