पृष्ठम्:आर्षेयब्राह्मणम्.djvu/२०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षष्ठोऽध्यायः

प्रथमपर्व

प्रथमः खण्डः

वेदसामगतानां हि साम्नां नामानि पञ्चभिः । अध्यायैरुदितान्यत्र षष्ठे पर्वचतुष्टये ।। अध्यायेनाभिधास्यन्ते छन्दसामानुयायिनाम् । साम्नां नामानि विस्पष्टं क्रमशः सुखवृ (बु)द्धये ॥

अष्टौ वैरूपाणि । अञ्जश्च वैरूपम् । ह्रस्वा च वृहदोपशा। पञ्चनिधनं च । षण्णिधनं च । सप्तनिधनं च । अष्टानिधनं च । द्वादशनिधनं च । पुष्यं च ॥६.१.१.१॥

यद्याव इन्द्र ते शतम् (सा. २७८) इत्यत्र अष्टौ सामान्युत्पन्नानि । तानि सर्वाणि वैरूपाणि । तत्र पदनिधनानि (दि?) भेदतः सर्वेषां नामविशेषमाह । ययावई (आ. गा. १. १.१) इति द्वितीयादिकम् आद्यम् अञ्जो वैरूपम् । समीचीनमित्यर्थः । यद्द्यावइन्द्रतेशतम् (आ. गा. १.१.२) इति क्रुष्टद्वितीयादिकं द्वितीयम् । हस्वा च बृहदोपशा एतन्नामधेयं वैरूपम् ॥ ययावइन्द्रतेशतम् । ए । शर्तभूमीरुत । स्योवा (आ. गा.१. १.३) इति क्रुष्टद्वितीयादिकं तृतीय पञ्चनिधनम् । ओवा । हिहिहिं ( हंह) इ[त्यादि] इट् [स्थि] इडेत्यन्तैः पञ्चभिनिधनैः उपेतम् ॥ ययावइन्द्रते शतम् (आ. गा. १.१.४) इति क्रुष्टद्वितीयादिकं चतुर्थ [षण्णिधनम् ।]