पृष्ठम्:आर्षेयब्राह्मणम्.djvu/२१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१० आर्षेयब्राह्मणम्

हाउहाउहाउवा इति [आदि] पण्णिधनैरुपेतम् ॥ यद्द्याव (आ. गा. १. १. ५) इत्यादि क्रुष्टद्वितीयादिकं पञ्चमं सप्तनिधनम् ॥ ययाव (आ. गा. १.१.६) इत्यादि [क्रुष्टद्वितीयादिकम् ] पष्ठं साम अष्टानिधनम् । हाउ. हाउहाउवा इत्यादि युवतिश्चकुमारिणीत्येतद्विशेषैः इडेत्यन्तैः अष्टभिनिधनै- रुपेतम् ॥ ययावइन्द्रतेशतम् (आ. गा. १.१.७) [इति क्रुष्टद्वितीयादिकं] सप्तमं साम द्वादशनिधनम् । ओहहाउहाउ इत्यादि हो। आ । ऊ । इत्यन्तैदशभिनिधनैरुपेतम् ॥ ययावहन्द्रतेशतम् (आ. गा. १.१.८) इत्यादि [क्रुष्टद्वितीयादिकम् ] हाओवाहाओवा इत्यादि अष्टमं साम पुष्य- नामधेयं वैरूपम् ॥ १॥

अन्तरिक्षे द्वे ॥६.१.१.२॥

पिबा सुतस्य रसिनः (सा. २३९) इत्यत्र सामद्वयम् । हाउपिबासुता (आ. गा. १.१.९) इति द्वितीयादिकम् । पिबासुता । स्यरसिनः (आ. गा. १.१.१०) इति द्वितीयादिकम् । एते द्वे अन्तरिक्षे अन्तरिक्षदेवत्ये ॥ २ ॥

अरिष्टे द्वे ॥६.१.१.३ ॥

पवित्रं ते विततम् (सा. ५६५) इत्यत्र सामद्वयम् । हाह । होइया इत्यादि पावी (आ. गा. १. १.११) इति तृतीयद्वितीया- दिकम् । हाह । हौ। पावी (आ. गा. १. १. १२) इति तृतीयद्वितीया- दिकम् । एते द्वे अरिष्टे अविनाशकरे मङ्गलकरणे इत्यर्थः । अनेनारि- पामेति तदरिष्टस्यारिष्टत्वम् (ता. ब्रा. १२. ५. २३) इति ब्राह्मणमनु- संधेयम् ॥ ३ ॥