पृष्ठम्:आर्षेयब्राह्मणम्.djvu/१६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमः अध्यायः (१) तृतीयं साम औक्षणोरन्ध्रः । उक्ष्णोरन्ध्रो नाम काव्यः तेन दृष्टमित्यर्थः। लिङ्गमवि- वक्षितम् । ऊचातेजाः (ग्राम. १२. १. ४६७.४) इति क्रुष्टद्वितीयादिकं चतुर्थं सामाभीकमेव । उच्चातेजा (ग्राम. १२. १. ४६७.५) इति मन्द्रा- दिकम् । उच्चातेजा (ग्राम. १२.१.४६७.६) इति मन्द्रादिकम् । एते द्वे पञ्चमषष्ठे बाभ्रवे कौम्भ्यस्य बभ्रोः संबन्धिनी । बभ्रुर्वा एतेन कौम्भ्योऽञ्जसा वर्ग लोकमपश्यत् (ता. ब्रा. १५.३.१३) इत्यादि ब्राह्मणमनुसंधेयम्। उच्चातेजातमा (ग्राम. १२.१. ४६७.७) इति मन्द्रचतुर्थादिकं सप्तमम् इन्द्राण्याः साम । उच्चातेजातमन्धासाः (ग्राम. १२.१. ४६७.८) इति मन्द्रचतुर्थादिकम् अष्टमम् । उच्चातेजातमन्यासाः (ग्राम. १२.१. ४६७.९) इति मन्द्रादिकं नवमम् । एते द्वे शैशवे । [शिशोराङ्गिरसस्य संबन्धिनी ।] शिशुर्वा आङ्गिरसो मन्त्र कृतां मन्त्र कृदासीत् (ता. ब्रा. १३. ३.२४) इत्यादि ब्राह्मणमनुसंधेयम् । उच्चा औहोवा (ग्राम. १२.१. ४६७. १०) इति तृतीयद्वितीयादिकम् । उच्चातेजातमन्धसोदोहाइदोहाए (ग्राम. १२. १. ४६७.११) इति मन्द्र- मन्द्रादिकम् । एते दशमैकादशे प्रजापतेदोहादोहीये दोहादोहशब्दयुक्ते । दशमस्य दोहादोहशब्द [युक्तत्वाद]नर्थक संज्ञाविधानमिति चेत् । सत्यम् । तथापि प्राणभृन्न्यायवत् छत्रिन्यायवद्वा द्विवचनान्यथानुपपत्त्या उत्तरस्य साम्नः संज्ञाविधा- नाच्च एतत्संज्ञाविधान शक्यते कर्तुम् । दोहादोहशब्दात् मतो छः सूत्र- सानोः (पा. ५.२.५९) इति मत्वर्थीयश्छः । उच्चातेजातमन्धसाः (ग्राम. १२.१.४६७.१२) इति तृतीयद्वितीयादिकम् एतदुपोत्तममिन्द्राण्याः एव साम । उच्चाताइजातमन्धसाः (ग्राम. १२.१.४६७.१३) इति मन्द्रद्विती- यादिकम् अन्तिमं] साम आमहीयवम् [इ त्यतिपूज्यम् एतन्नामधेयम् । अत्र ब्राह्मणम् – प्रजापतिरकामयत । बहु स्यां प्रजायेयेति । स शोचन्नमहीय- मानोऽतिष्ठन्स एतदामहीयवमपश्यत्तेनेमाः प्रजा असृजत ताः सृष्टा अमहीयन्त । यदमहीयन्त तस्मादामहीयवम् (ता. ब्रा. ७.५.१) इति ॥१॥