पृष्ठम्:आर्षेयब्राह्मणम्.djvu/१४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नवमः खण्डः

इन्द्रस्य संक्रमे द्वे । वसिष्ठस्य वा सौहविषाणि त्रीणि । सर्वाणि वा सौहविषाणि ॥४.९.१॥

परि प्र धन्व (सा. ४२४) इत्यत्र पञ्च सामान्युत्पन्नानि । तत्र परिप्रधन्वा (ग्राम. ११. ९. ४२७.१) इति चतुर्थमन्द्रादिकम् । परिप्रधन्वा । इन्द्रायसोमा । ओहा (ग्राम. ११. ९. ४२७. २) इति चतुर्थमन्द्रादिकम् । एते आद्ये द्वे इन्द्रस्य संक्रमे अथवा वसिष्ठस्य संक्रमे । परिहोइ (ग्राम. ११. ९. ४२७. ३) इति तृतीयद्वितीयादिकम् । हाहाइ। परिप्रधान्वा (ग्राम. ११. ९. ४२७. ४) इति द्वितीयतृतीयादिकम् । पार्येपारी (ग्राम. ११.९. ४२७. ५) इति चतुर्थमन्द्रादिकम् । एतानि त्रीणि सौहविषाणि । सुहविर्वाङ्गिरस ऋषिः तेन दृष्टानि ॥१॥

बाकानि त्रीणि ॥४.९.२॥

पर्यू षु प् रधन्व (सा. ४२८) इत्यत्र सामत्रयम् । पर्युषुप्रधन्वावाजासा (ग्राम. ११. ९. ४२८. १.) इति द्वितीयतृतीया(चतुर्था ?)दिकम् । पर्यूषू (ग्राम. ११. ९. ४२८. २) इति मन्द्रादिकम् । पर्येपारी (ग्राम. ११. ९. ४२८. ३) इति चतुर्थमन्द्रादिकम् । एतानि त्रीणि बाकानि ॥ २ ॥

प्रजापतेर्धर्मविधर्माणि चत्वारि ॥ ४.९.३ ॥

पवस्व सोम महान् (सा. ४२९) इत्यत्र सामद्वयम् । पवस्वसोमा (ग्राम. ११. ९. ४२९. १) इति चतुर्थमन्द्रादिकम् । औहोवा (ग्राम. ११.९. ४२९. २) इति मन्द्रातिस्वारमन्द्रादिकम् । एते द्वे प्रजापतेर्धर्मणी । [अत्र] द्वितीयं ('यस्य ?) साम(म्नः?) धर्मा इति हि निधनान्तत्वेनोक्तत्वात्