पृष्ठम्:आर्षेयब्राह्मणम्.djvu/१४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४७ चतुर्थ : अध्यायः

औषसं च ॥ ४.८.५॥

क्रत्वा महा५ अनुष्वधम् (सा. ४२३) इत्यत्रैकं साम । क्रत्वा- महा५ अनुष्वधामे (ग्राम. ११. ८. ४२३. १) इति मन्द्रमन्द्रादिकम् औषसम् ॥ ५॥

लौशं च यामं वा ॥ ४.८.६॥

स घा तं वृषणम् (सा. ४२४) इत्यत्रैक साम। सघातंवृषणम् (ग्राम. ११. ८. ४२४. १) इति तृतीयचतुर्थादिकं लौशम् एतन्नामधेयम् । अत्रैव विकल्पः । अथवा एतत्साम यामम् ॥ ६ ॥

अङ्गिरसां चैव निषेधः ॥ ४.८.७ ॥

अग्नि तं मन्ये यो वसुः ( सा. ४२५) इत्यत्रैक साम । अग्नितां- मन्येयोवसूः (ग्राम. ११. ८. ४२५.१) इति मन्द्रद्वितीयादिकम् । एतस्य अङ्गिरसा निषेध इति संज्ञा ॥ ७ ॥

गौराङ्गिरसस्य साम । अंहोमुचो वा ॥ ४.८.८ ॥

न तम हो न दुरितम् (सा. ४२६) इत्यत्रैक साम । नतम होन- दुरितम् (ग्राम. ११. ८. ४२६. १) इति चतुर्थमन्द्रादिकम् आङ्गिरसस्य गौरेः साम । अथवा अंहोमुचः एतत्संज्ञस्य साम ॥ ८ ॥

इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आपर्यंब्राझणभाष्ये चतुर्थाध्याये अष्टमः खण्डः ॥ ८॥ इति पाङ्क्तम् ॥