पृष्ठम्:आर्षेयब्राह्मणम्.djvu/११६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११६ आर्षेयवाह्मणम्


यामं वा महायामं च ॥३.९.८॥

नाके सुपर्णम् (सा. ३२०) इत्यत्रैक साम । आयाम् । अयायम् इत्यादि नाके सुपार्णम् (ग्राम. ८. ९. ३२०.१) इति क्रुष्टद्वितीया (द्वितीय- क्रुष्टा ?) दिकं [यामम् । अथवा] महायामम् एतत्संज्ञकम् ॥ ८ ॥

ऋतुसामनी द्वे । जज्ञानस्य वा ब्राह्मस्य ॥ ३.९.९॥

ब्रह्म जज्ञानम् (सा. ३२१) इत्यत्र सामद्वयम् । ब्रह्मा (ग्राम. ८. ९. ३२१.१) इति क्रुष्टादिकम् । हुवेहाइ (ग्राम. ८. ९. ३२१.२) इति क्रुष्टद्वितीयादिकम् (तृतीयादिकम् ?) । एते द्वे ऋतुसामनी । वा अथवा ब्राह्मस्य जज्ञानस्य संवन्धिनी ॥ ९ ॥

इन्द्रस्य वारवन्तीयम् ॥ ३.९.१० ॥

अपूर्व्या पुरुतमा (सा. ३२२) इत्यत्रैकं साम । अपूर्व्या ओहो- होहाइ (ग्राम. ८.९.३२२.१) इति मन्द्रचतुर्थादिकम् इन्द्रस्य वारवन्तीय- संज्ञम् ।। १० ।।

इति श्रीसायणाचार्यविरचिते माधवीय सामवेदार्थप्रकाशे आयब्राह्मणभाष्ये तृतीया याय नवमः ग्वण्डः ।। ९ ॥