पृष्ठम्:आर्षेयब्राह्मणम्.djvu/११५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयः अध्यायः (९) ११५


सौपर्णे द्वे । वात्सप्राणि त्रीणि । क्षुल्लकवात्सप्रं वैषां तुरीयम् । महावात्सप्रमुत्तमम् । सर्वाणि वै वात्सप्राणि ॥ ३.९.५॥

जगृह्मा ते दक्षिणम् (सा. ३१७) इत्यत्र पञ्च सामान्युत्पन्नानि । तत्र जगृह्मातेदक्षिणमोहाओहाम्ए (ग्राम. ८.९. ३१७.१) इति मन्द्रमन्द्रादिकम् । जगृह्मातेदक्षिणम् (ग्राम. ८. ९. ३१७. २) इति मन्द्रचतुर्थादिकम् । एते आदिमे द्वे सौपर्णे । होई । होई । होई । जगृह्मातेदक्षिणम् (ग्राम. ८. ९. ३१७. ३) इति क्रुष्टद्वितीयादिकम् । आ औहोइ (ग्राम. ८. ९. ३१७. ४) इति चतुर्थमन्द्रादिकम् । हाउ । ओ । होहोवा (ग्राम. ८.९. ३१७.५) इति मन्द्रतृतीयादिकम् । एतानि त्रीणि वात्सप्राणि । वत्सप्रिर्नाम ऋषिः । अथवा एषां पञ्चानां मध्ये तुरीयं शुल्लकनान्सप्रम् । तथा उत्तम चरमं साम महावत्सप्रम् अपरम् । अथवा सर्वाणि पञ्च सामानि वात्सप्राण्ये- वेति ॥५॥

गौरीवितं च ॥ ३.९.६॥

इन्द्रं नरो नेमथिता हवन्ते (सा. ३१८) इत्यत्रैक साम इन्द्रन []रो (ग्राम. ८. ९. ३१८. १) इति द्वितीयतृतीयादिकं गौरी- वितम् ।। ६॥

वैदन्वतं च ॥ ३.९.७ ॥

वयः सुपर्णाः (सा. ३१९) इत्यत्रैक साम । वयोहाहाउ (ग्राम. ८. ९. ३१९.१) इति मन्द्रादिकं वेदवतम् । विदन्वानृषिर्भार्गवः ॥ ७ ॥