पृष्ठम्:आर्षेयब्राह्मणम्.djvu/१०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पश्चमः खण्डः


पौरुहन्मनं च प्राकर्ष च ॥३.५.१॥

यो राजा चर्षणीनाम् (सा. २७३) इत्यत्र सामद्वयोत्पत्तिः । योराजा (ग्राम. ७.५. २७३. १) इति मन्द्रद्वितीयादिकमाद्य साम पौरु- हन्मनम् एतत्संज्ञम् । पुरुहन्मा वा एतेन वैखानसोऽजसा स्वर्ग लोक- मपश्यत् (ता. ब्रा. १४. ९. २९) इति हि ब्राह्मणम् । योराजा (ग्राम. ७. ५. २७३. २) इति तृतीयचतुर्थादिकं द्वितीयं साम प्राकर्षम् ॥ १ ॥

इन्द्रस्य चाभयंकरम् ॥३.५.२॥

यत इन्द्र भयामहे (सा. २७४) इत्यतैकं साम । यत[आ] इन्द्र (ग्राम. ७.५.२७४.१) इति मन्द्रद्वितीयादिकं इन्द्रस्य चाभयंकरम् ॥२॥

कावषे च ॥ ३.५.३॥

वास्तोष्पते (सा. २७५.). इत्यत्र सामद्वयोत्पत्तिः । वास्तोष्पताइ (ग्राम. ७. ५. २७५. १) इति मन्द्रादिकम् । वास्तोष्पतेध्रुवा (ग्राम. ७. ५. २७५. २) इति तृतीयचतुर्थादिकम् । एते द्वे कावपे ।। ३ ।।

सूर्यसाम च ॥ ३.५.४ ॥

वण्महार असि सूर्य (सा. २७६ ) इत्यत्रैक साम । बण्महार असिसूर्या (ग्राम. ७. ५. २७६. १) इति मन्द्रद्वितीयादिकं सूर्यसाम ॥ ४॥

वैश्वदेवे द्वे । आनूपे वाध्यश्वे वा ॥ ३.५.५ ॥

अश्वी रथी (सा. २७७) इत्यत्र सामद्वयोत्पत्तिः । अश्वीअश्वी (ग्राम. ७.५.२७७.१) इति चतुर्थमन्द्रादिकम् । अश्वीरथीसुरूपाईद् (ग्राम. ७. ५. २७७. २) इति मन्द्रमन्द्रादिकम् । एते द्वे वैश्वदेवे । अथवा आनूपे अथवा वाध्यश्वे । वाध्यश्वो नाम ऋषिः ॥ ५ ॥