१०६ आर्षेयब्राह्मणम्
वैरूपं च ॥ ३.५.६॥
यद्द्याव इन्द्र ते शतम् (सा. २७८) इत्यत्रैकं साम । यद्यावा (ग्राम. ७.५.२७८.१) इति द्वितीयक्रुष्टादिकं वैरूपम् । एतन्नामधेयम् ॥ ६॥
नैपातिथे द्वे ॥ ३.५.७॥
यदिन्द्र प्राग् (सा. २७९) इत्यत्र सामद्वयोत्पत्तिः । यदिन्द्र प्राग् (ग्रा. ७.५. २७९.१) इति चतुर्थमन्द्रादिकम् । यदिन्द्रप्रागपागुदांगे (ग्राम. ७.५.२७९. २) इति मन्द्रमन्द्रादिकम् । एते द्वे नैपातिथे ।। ७ ॥
बृहतश्च कौमुदस्य सामनी द्वे। स्वर्ज्योतिर्निधनमुत्तरम् ॥ ३.५.८ ॥
कस्तमिन्द्र (सा. २८०) इत्यत्र सामद्वयोत्पत्तिः । कस्तमिन्द्र (ग्राम. ७. ५.२८०.१) इति मन्द्रादिकम् । कस्तमिन्द्रत्वा (ग्राम. ७. ५. २८०. २) इति तृतीयचतुर्थादिकम् । एते द्वे कौमुदस्य बृहतः सामनी । अनयोरुत्तरं द्वितीयं साम स्वर्ज्योतिर्निधनम् एतत्संज्ञम् ।। ८ ।।
वाचश्व साम ॥ ३.५.९ ॥
इन्द्राग्नी अपादियम् (सा. २८१) इत्यत्रैकं साम । इन्द्राग्नीअपादियांमे (७. ५. २८१. १) इति मन्द्रमन्द्रादिकम् वाचः साम ॥९॥
वाम्रे द्वे आक्षीले वा ॥ ३.५.१० ॥
इन्द्रे नेदीय एदिहि (सा. २८२) इत्यत्र सामद्वयोत्पत्तिः । इन्द्रनेदीयएदि । हाइ । मितमे । धा। भिरूतिभिः (ग्राम. ७.५.२८२.१) इति चतुर्थमन्द्रादिकम् । इन्द्रनेदीयएदि । हाइ । मितमे । धा। भिरूतिभाइः (ग्राम. ७. ५. २८२. २) इति चतुर्थमन्द्रादिकम् । एते द्वे वाम्रे अथवा आक्षीले । एतन्नामधेये भवतः ।। १० ।।
इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आर्षेयब्राह्मणभाष्ये तृतीयाध्याये पञ्चमः खण्डः ॥ ५ ॥