पृष्ठम्:आर्यभटीयम्.djvu/85

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथ गणितपादः

[ मङ्गलाचरणम् ] एवं दशगीतिसूत्रात्मकेन प्रबन्धेनातीन्द्रियमर्थजातमुपदिश्य इदानीं तन्मूलन्याया'वसेयमर्थजातं प्रवन्धान्तरेण प्रदर्शयिष्यन् इष्टदेवतानमस्कारपूर्वकं* तदभिधानं प्रतिजानाति— ब्रह्म-कु-शशि-बुध-भृगु-रवि कुज-गुरु-कोण-भगणान् नमस्कृत्य । आर्यभटस्त्विह निगदति कुसुमपुरेऽभ्यर्चितं ज्ञानम्' ॥ १ ॥ ब्रह्मा स्वयम्भूः । कुः पृथिवी । कोणः शनिः । भगणो नक्षत्रगणः । ब्रह्मा शास्त्रस्य कर्तोपदेष्टा च ।। क्वादय उपर्युपर्यवस्थिताः शास्त्रप्रतिपाद्याः । श्रतो ब्रह्मणस्तेषां च नमस्कारः कृतः । इह श्रप्रस्मिन्नारभ्यमाणे प्रबन्धे ॥ ज्ञानं' गणितकालक्रियागोलात्मक युक्तिसिद्धम् । कुसुमपुरेऽभ्यचितम् । अनेन' गणिताद्यभिज्ञानां तत्पुरनिवासिनां श्रद्धेयत्वप्रदर्शनमन्येषामपि श्रद्धोत्पादनार्थम् ।। इति प्रथमं सूत्रम्। १ ।। [ संख्यासंज्ञाः संस्थानं च ] एवमस्मिन् प्रबन्धे गणितकालक्रियागोला उपदेशमूलन्यायावसेयाः प्रतिपाद्यन्त इत्युक्तम् । तत्रेतरयोः परिकरभूतं गणितं" प्रतिपादयिष्यन् मूलम्- 1. A. C. शारुत्रम् for ज्ञानम् 1. D. Gap for न्याया[ [वसेय to प्रबन्धान्तरेण], same line. 2. D. E. नमस्कारपूर्व 3. A., शास्त्रं 4. A. B. C. add : ज्ञानमिति समीचीनम् 5. E. अतोf or अनेन 6. B. C. om. गणितं ; D. E. भूतं प्रथमं गणितं आर्य-५ ३३