पृष्ठम्:आर्यभटीयम्.djvu/83

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्लोकः १२ ] , महार्जयां: ३१ एतानि चतुर्विशतिज्याखण्डानि । एषामङ्कन्यासादेव व्याख्यानम् । तद्यथा-225, 224, 222, 219, 215, 210, 205, 199, 191, 183, 174, 164, 154, 143, 131, 117, 106, 93, 79, 65, 51, 37, 22, 7. एताश्च' कलार्धज्याः कलारूपाः श्रप्रर्धज्या:* । एतानि च ज्याखण्डानि श्राद्यात्प्रभृति क्रमेण* योजयितव्यानि क्रमज्याग्रहणे । ग्रन्त्यात्प्रभूत्युत्क्रमेण योजयितव्यान्युत्क्रमज्याग्रहणे' । नन्वत्र सामान्यगणितस्य युक्तिमात्रसाध्यत्वाद् बीजोपदेशोऽनर्थकः । सत्यम् । उपदेशसंस्कृतायां बुद्धौ न्यायस्य झटित्यारोहात् तद्बीजभूतज्याधोंपदेशः कृतः' । परमार्थतस्तु सर्वस्य सामान्यगणितस्योपदेशापेक्षा नास्त्येव । ग्रत एव कालक्रियागोलयोः परिकरत्वेन प्रतिज्ञाय प्रथमोपात्तस्य गणितस्य शास्त्रस्वरूपभूतदशगीतिसूत्रान्ते मुक्तकेनार्यासूत्रेण बीजोपदेशः कृतः । फलप्रदर्शनं" च कालक्रियागोलयोरेव कृतं, न गणितस्य । एवमस्मिन् दशगीतिसूत्रे' समस्तं गणितकालक्रियागोलात्मकं वस्तु परिसमाप्तम् । श्रप्रस्यैव न्यायोपबृंहितः प्रपञ्च उत्तरप्रबन्धः । तथा च तत्र तत्र प्रदर्शयिष्यामः ।। *एवमेकादशं गीतिसूत्रम् । ननु कथमिदं शास्त्र प्रबन्धद्वयात्मकम् ? उच्यते-दशगीतिकायां तावदारम्भे नमस्कारः, कर्तृनिर्देशः, प्रतिपाद्यप्रतिज्ञा च दृश्यते । श्रान्ते चोपसंहारपूर्वकं फलवचनम् । श्रप्रतोऽयमेकः प्रबन्धः । उत्तरप्रबन्धादौ च नमस्कारः, कर्तृनिर्देशः, प्रतिपाद्यप्रतिज्ञा च दृश्यते । श्रप्रन्ते च प्रबन्धनामधेयप्रदर्शनपूर्वकमुपसंहारः । श्रप्रतः सोऽप्यपरः प्रबन्ध इति प्रबन्धद्वयात्मकमेवेदं शास्त्रमिति ।। १२ ।। [ दशगीतिकापरिज्ञानफलम् ] दशगीतिसूत्रार्थज्ञानस्य° फलमाह दशगीतिस्त्रमेतद् भूग्रहचरितं भपञ्जरे ज्ञात्वा । ग्रहभगणपरिभ्रमणं स याति भित्वा परं ब्रह्म ॥ १३ ॥ state - 1. D. Gap for QITRT 2. D. E. add ąFTtfs TT: 3. B. om. Erot 4. B C. The expn, deitiya Tsai tr. to before streal, just above. 5. D. Hapl, om. : FT: t (qRHT to fluïqèRT: 35: 1) het, four lines below. 6. D. फलदर्शनं 7. C. दशगीतिसूत्रेण 8. D. xfor for qui 9. B. ज्ञानं ; D. सूत्रार्थस्य