पृष्ठम्:आर्यभटीयम्.djvu/73

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्लोकः ६ ] कक्ष्यायोजनप्रमाणम् ۔۔۔۔ २ፃ गुणिता राशयो भवन्ति । ते अंशकलायोजनानि यवञगुणाः । ते राशयो यवञैः क्रमाद् गुणिता अंशकलायोजनानि भवन्ति । एतदुक्तं' भवति-राशयो यगुणाः त्रिशद्गुणिता भागा भवन्तिे । भागा वगुणाः षष्टिगुणाः कला भवन्ति । कला ञगुणा दशगुणा योजनानि भवन्ति । 'एवंकृते स्वकक्ष्यायोजनानि भवन्ति' । ‘शून्याम्बराकाशरसस्वरेषुशून्याश्विशैलाब्धिनगाब्धिसूर्य'संख्यानि' (1,24,74,72,05,76,000) भवन्ति । स्वकक्ष्या नाम अण्ड“कटाहावच्छिन्नस्य सूर्यरश्मिव्याप्तस्य श्राकाशस्य परिधिः । न ह्यनन्तस्याकाशस्योपाधि विना परिमाणं सम्भवति । चन्द्रकक्ष्यायामेकैकस्याः कलाया दश योजनत्वेन सुकरत्वाच्चन्द्रभगणैरेवाकाशकक्ष्योपदेशः कृतः । कलाया दशयोजनपरिमितत्वमेव चन्द्रकक्ष्याया ग्रसाधारणम् । “*कलान्तो विभागस्सर्वभगणसाधारणः । तेन सर्वग्रहाणामेकस्मिन् भगणे द्वादश राशयः, षष्टिशतत्रयं भागाः, खखषड्घनसंख्याः (2,16,00) कला इत्यवगन्तव्यम् । प्राणेनैति कलां भम् । प्राणेन उच्छ्वासतुल्येन कालेन भं ज्योतिश्चक्रं कलामेति कलापरिमितप्रदेशं प्रवहवायुना पश्चिमाभिमुखं गच्छति । ज्योतिश्चक्रस्य खखषड्घन (2,16,00) कलापरिमितत्वं श्रनन्तरमेव प्रदशितम् । श्रत्र तावत् प्राणसंख्यत्वं तद्भ्रमणकालस्योच्यते । ज्योतिश्चक्रकलास्तद् स्यास्या-1. D. Gap for एतदुक्तम् 2. C. D. E. गुणा 3. C. om. भवन्ति 4. C. ते for भागाः 5. B. C. add एतदुक्तं भवति 6. D. Gap for एकं to भवन्ति, next line. 7. E. Hapl. om. : भवन्ति । [शून्या to भवन्ति], below. 8. D. reads the number as : आकाशखाकाशरसस्वरेषुखाक्ष्यद्विवेदाद्रि पयोधिसूर्याः, the figure being the same. 9. B. C. D. एतत्संख्यानि । 10. D. om. भवन्ति 11. D. ब्रम्हाण्ड 12. C. Hapl. om. : काशस्य [परिधि to काशस्यो] पाधि विना, next line. 13. D. E. add श्रन्यः-. 14. D. E. प्रवहवायुवशात् 15. D. adds एवम् 16. D. E. प्रत्र तु तावत्