पृष्ठम्:आर्यभटीयम्.djvu/212

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ሳዩo गोलपादे [ गोल० न्मण्डलम् । ततो दक्षिणेन क्रान्ति'भागतुल्येऽन्तरे ग्रहः । ततः खमध्ये° तयोयोंगेन नतो ग्रहो भवति। उत्तरगोलेऽक्षभागान्न्यूने क्रान्तिभागे क्रान्तिविशुद्धोऽक्षभागो नतम् । तयोस्तुल्यत्वे धनर्णसमत्वात् खमध्य* एव ग्रहो भवति । अक्षाधिकेऽपक्रमे अक्षहीनापक्रमो नतम् । खमध्यं च क्षितिजान्नवतिभागैरुन्नतम् । ततो नवतेर्नतं* विशोध्य शेषमुन्नतं भवति इत्युपपन्नम् । श्रप्रत्रैवं क्षेत्रस्थितिः--ग्रहाक्रान्तप्रदेशात् गोलदक्षिणोत्तरस्पृक्सूत्रेमवलम्बयेत् । स शङ्कुः कोटिः । शङ्कुमूल-भूमध्यान्तरं नतज्यातुल्या* छाया भुजा । भूमध्य-शङ्कुमस्तकप्रापि सूत्रं व्यासार्धं कर्णः । एवमिदमर्धायतचतुरश्रं क्षेत्रम् ।। इति द्वात्रिशं सूत्रम् ।। ३२ ।। [ दृक्क्षेपज्या ] दृक्क्षेपज्यानयनमार्ययाऽऽहं’– ', मध्यज्योदयजीवा संवगें व्यासदलहते यत् स्यात्। तन्मध्यज्याकृत्यो र्विशेषमूलं स्वदृक्क्षेपः ॥ ३३ ॥ श्रप्रत्र प्रतिकक्ष्यं पञ्च ज्याः सन्ति-*मध्यज्या, उदयज्या, दृक्क्षेपज्या, दृग्ज्या, दृग्गतिज्या चेति । ग्रत्राऽद्याभ्यां न्यायसिद्धाभ्यां तृतीयज्या ग्रस्मिन् सूत्रे ग्रभिधीयते । यत्रापवृत्तस्य दक्षिणोत्तरवृत्तासक्तिः तन्मध्यलग्नम्' । तत्खमध्यान्तरालज्या" दक्षिणोत्तरवृत्तगता मध्यज्या । तस्यैवाप"मण्डलस्य यत्र पूर्वक्षितिजेन सम्पर्कः तदुदयलग्नम् । तत्समपूर्वान्तरालज्या दक्षिणोत्तरायता** क्षितिजमण्डलगतोदयाग्रासंज्ञिता'* उदयज्या । तस्यैवापवृत्तस्य auttgat-1. A. C. It for airfa 2. E. खमध्यात 3. A. B. C. TąHTET 4. A. B. C. Haas (wr.) 5. E. दक्षिणोत्तरसूत्रे सूत्र 6. A. B. C. rfa trwy ar g&q- 7. A. B. C. om. this introduction. 8. E. adds Tīrā 9. E. om. TāFHEITH 10. D. E. मध्यन्तरज्य 11. A. B. C. om. 3qq 12. D. afşturîetvT 13, D. दयाग्रा । तसंक्षिता