पृष्ठम्:आर्यभटीयम्.djvu/213

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इलोकः ३३ ] वृक्क्षेपज्या ሳዩዓ पूर्वप्रदशितदृक्क्षेपमण्डलेन सह यत्र सम्पर्कः तद् दृक्क्षेपलग्नं भवति' । *वित्रिभलग्नं चोच्यते । तत्खमध्यान्तरालज्या' दृक्क्षेपमण्डलगता दृक्क्षेपज्या । एवमर्ककक्ष्यायाम् । चन्द्रकक्ष्यायामपि यत्र विक्षेपमण्डलस्य दक्षिणोत्तरवृत्तसंसर्गः,* यत्र क्षितिजेन, यत्र दृक्क्षेपमण्डलेन तत्तदवधिकज्या” तत्तत्संज्ञां । श्राद्याभ्यां* तृतीया तत्तत्कक्ष्यागता नीयते । मध्यज्योदयज्ययोघर्षाते त्रिज्याहृते यत् स्यात् तस्य मध्यमज्यायाश्च कृत्योरन्तरमुलं’ स्वस्वकक्ष्यागता दृक्क्षेपज्या भवति । श्रत्र वासना । तत्र · प्रथमं मध्यज्योदयाज्ये° न्यायसिद्धे प्रदश्र्यते । निरक्षे साक्षे च देशे' दक्षिणोत्तरमण्डलस्यैकत्वात् पश्चिमाभिमुख भ्रमतोऽपमण्डलस्य दक्षिणोत्तरमण्डलातिक्रमणं निरक्षराश्युदयप्राणैरेव'° भवति । दक्षिणोत्तरमण्डलात् पूर्वतोऽपरतो वा यत्रार्कः स्थितः तदन्तरालभ्रमणकालो नतघटिकाः। ताभिरपमण्डलेन दक्षिणोत्तरमण्डलस्पृष्टदेश' ऊह्यते। तत्रावश्यं पूर्वाहने रव्याक्रान्तराशिगतांशभ्रमणप्राणाः निरक्षराश्युदयप्राणाः त्रैराशिकानीत'नतप्राणेभ्यः शोध्याः । तत्पूर्व“राशिप्राणाश्च सम्भवे शोध्याः । ग्रकांद्' भुक्तभागप्रभृति शोध्यम् । तत्पूर्वाऽशुद्धप्राणैश्च त्रैराशिकेनानीतं° भागाद्यं च शोध्यम् । शिष्टं मध्यलग्नम्, मध्यलग्नात्पुरतः स्थितत्वादर्कस्य । अपराहने त्वर्कस्य गन्तव्यांशात् प्रभूत्येतत्सर्व कृत्वा लब्धमकें प्रक्षिप्य मध्यलग्नं भवति, ग्रकत् िपुरतः स्थितत्वात् मध्यलग्नस्य । तदुक्तम् लङ्गोदयानुपाताप्तानवगम्य रवेरसून् । तिथिमध्यान्तरासुभ्यो हित्वा शोध्यं गतं ततः ॥

  • TTSS-1. D. E. om. Nafè 2. A. B. C. om, fă 3. C. D. मध्यान्तरज्या ; E. मध्यान्तरा ज्या 4. B. C. D. E. Ei sf: 5. B. C. वधिका ज्या ; E. तत्तदवधिन्यादितत्तदवधिका ज्या 6. A. 3TTg Tri

7. A. श्च-gap-रन्तिममूलं ; C. E. श्च तुभ्योरन्तरम्लं (wr.) 8. D, E. sĩìà for Sà 9. E. गोले 10. B. प्राणेनैव 11. A. B. C. मण्डले रुपृष्टदेश 12. A. त्रैराशिकेनानीताः – 13. B. तत्पूर्वपूर्व 14. E. अकच्चि 15. A. B. C. नानीत tro-R