पृष्ठम्:आर्यभटीयम्.djvu/187

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्लोकः १४ ] लङ्कज्जयिन्योरवस्थानम् ኣ፣ g ‘उज्जयिनी लङ्कायाः पञ्चदशांशे' समोत्तरतः' इति° सम्यक्पाठः, भू*कक्ष्यायाः पञ्चदशांशे लङ्कात उत्तरत* उज्जयिन्यवतिष्ठती इति’ यस्मात् । ब्रह्मगुप्तः – लङ्कोत्तरतोऽवन्ती' भूपरिधेः पञ्चदशभागे’ ॥ (ब्राह्मस्फुटसिद्धान्तः, गोलाध्यायः, 9) इति । ग्रयमत्राभिसन्धिः-घनगोले भूवृत्ते समपूर्वापररेखायां समदक्षिणोत्तररेखायां समपाश्र्वरेखायां च कृतायां स्वस्तिकषट्क सम्भवति । उपयेंक: स लङ्का । एकोऽधः, स सिद्धपुरम् । पूर्वस्यां दिश्येकः, स यवकोटिः । पश्चिमस्यां दिश्येकः, स रोमकः । उत्तरत एकः, स मेरुः । दक्षिणत एकः, स बडवामुखम् । एवं' यवकोटि-बडवामुख-रोमक-मेर्वाख्याः चत्वारो देशा: लङ्का-सिद्धपुरयोश्चतसृषु' दिक्षु भूपरिधिचतुर्भागे स्थिताः । एतेषां द्वयोर्द्वयोः परस्परमन्तरमपि भूपरिधिचतुर्भाग एव । लङ्का-सिद्धपुरे तु परस्परं भूपरिध्यधैं सर्वतः स्थिते । एवं मेरुबडवामुखयोश्चतसृषु दिक्षु भूपरिधिचतु'°र्भागे स्थितानि लङ्कादीनि चत्वारि नगराणि भूपरिधिचतुर्भागे स्थितानि' व्यवहृतानि*। बडवामुख-मेरू तु परस्परं भूम्यर्ध स्थितौ । एवं यवकोटिरोमकयोः लङ्का-मेरु-सिद्धपुर-बडवामुखानि परितः स्थितानि । लङ्कासिद्धपुरौ'* तु परस्परमधोभावेन भूम्यधे स्थितौ' । एवमेते षड्देशा उपदिष्टाः उदयास्तमयार्धरात्रमध्याह्नादिविशेषप्रतिपादनाय । एवं च "लङ्का-मेरु-सिद्धपुर-नरकावगाही यो भुवः परिणाहः तस्मिन् षष्टिशतत्त्रयभागात्मना विभक्ते लङ्कामेर्वन्तरालं नवतिभागाः । चक्रे ‘पञ्चदशांशः चतुविशतिभागाः । तेन लङ्कामेर्वन्तरस्थे'$ नवतिभागे लङ्का । ग्रत'? व्याख्या- 1. D. पञ्चदशभागे 2. D. समोत्तरेति 3. A. om. 4. A. C. om. VISTTRITT 5. A. E. तिष्ठत इति 6. D. त्तरवन्ती, rev. to स्तरवतीं 7. A. C. पञ्चदशांश भागे 8. E. g. 9. A. C. tigs 10. A. om. tą 11. E. चतुर्भागव्यवस्थितानि 12. D. E. aqafirfi 13. D. तौ for लङ्कापुरसिद्धपुरौं 14. A. भूम्यर्धस्थितौ 15. A. om. TāT 16. A. Hapl. om. ITIS to år TITst, two lines below. 17. C. D. om. Ve2 18. D. रालस्थे 19. D. om, 34ST