पृष्ठम्:आर्यभटीयम्.djvu/186

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३४ লীলাবাই [ गोल० सिनामस्तमयश्च तेनैवावच्छिन्नः । तदा' उदयस्यैवास्तमयत्वे द्वयोरपि भूपरिधिचतुर्भाग एव रविर्भवतीति द्वयोर्नगर्योरन्तरं भूपरिध्यर्ध भवतीत्युपपन्नम् । *लङ्गोदयो यवकोटिस्थानां मध्याह्नः, रोमकविषयाना'मर्धरात्र च' भवति । तेन यवकोटिर्लङ्कातः पूर्वस्यां दिशि भूवृत्त*चतुर्भागे स्थिता, रोमकः पश्चिमस्यां तत्रैव स्थित इति द्वयोर्द्वयोर्नगरयोरन्तरं भूपरिधिचतुर्भाग इति सिद्धम् । एतत्सर्वं भूमेर्गोलाकार'त्वाद् धारणाशक्तियोगेन सर्वेषामधः स्थितत्वाच्चोपपन्नम् ।। इति त्रयोदशं सूत्रम् ।। १३ ।। [ लङ्गोज्जयिन्योरवस्थानम् ] मेरोर्बडवामुखाच्च प्रभृति लङ्कावस्थानप्रदेशं, तत्प्रभृत्युज्जयिन्यवस्थानप्रदेश चाह स्थलजलमध्याल्लङ्का भूकक्ष्या या' भवेच्चतुर्भागे । उज्जयिनी लङ्कायाः तच्चतुरंशे? पञ्चदशांशे] समोत्तरतः ॥ १४ ॥ स्थलमध्यं मेरुः, जलमध्यं बडवामुखम् । ताभ्यां भू'परिधेश्चतुर्भागे लङ्का स्थिता । तेन स्थलजलसन्धौ लङ्काऽवतिष्ठते । ग्रत एव तत्पूर्वापरार्धस्थितानां पूर्वोक्तानां यवकोटि-रोमक-सिद्धपुराणामपि स्थलजलसन्ध्यवस्थान, मेरोबंडवामुखाच्च प्रभूति 'भूपरिधिचतुर्भागावस्थानं च सिद्ध भवति । उज्जयिनी" लङ्कायाः समोत्तरस्यां दिशि "तच्चतुरंशे चतुर्भागस्य चतुर्भागे स्थिता । लङ्कायाः समोत्तरस्यां दिशि उज्जयिनी भूपरिधिषोडशांशेऽवतिष्ठत इत्यर्थः । मूलम्- 1. D. भूकक्ष्यायाः euT&T-— 1. D. om... ktar ; E. rTkT: 2. E. adds et Qa before this. 3. E. रोमकवासिनां 4. A. om. T ; D. E. RTTTTTTT 5. E. भूपरिधि 6. A. गोलकाकार 7. A. om. 8. A. om. I, 9. E. adds 10. E. तच्चतुर्भागे भूपरिधिचतुर्भागस्य चतुर्भागे