पृष्ठम्:आर्यभटीयम्.djvu/172

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ቄኛ o गोलपाडे गोल० तत्र मेरुस्था बडवामुखस्थाश्च स्वोपरि ध्रुवम् अक्षाग्रस्थ' पश्यन्ति, विषुवन्मण्डलं क्षितिजत्वेन स्थितम् । तच्च मेरुगाः प्रदक्षिणगम् पश्यन्ति, श्रपसव्यगं नरकस्थाः । ग्रादित्यादयश्च उभाभ्यां* तथाविधाः प्रदृश्यन्ते* । देवास्तु विषुवन्मण्डलावच्छिन्नं दक्षिणं ज्योतिश्चक्रार्धं तत्त्रस्थांश्च* ग्रहान् न पश्यन्ति, उत्तरार्ध तत्रस्थाश्च नित्यं पश्यन्ति । नरकस्था उत्तरार्ध तत्रस्थांश्च न पश्यन्ति, दक्षिणार्ध तत्त्रस्थांश्च पश्यन्ति । तेन देवा मेषादिषट्कस्थमर्क तत्रस्थांश्च ग्रहादीन् पश्यन्ति । ग्रतस्तेषां मेषादिषट्कं दिवसः, तुलादिषट्कं रात्रिः । श्रप्रसुराणां विपरीतम् । लङ्कादिस्थाः समोपरिगं विषुवन्मण्डलं पश्यन्ति, ध्रुवौ क्षितिजस्थौ । ते चोन्मण्डलोपरिस्थ"ज्योतिश्चक्रार्धं पश्यन्ति, श्रप्रधस्थं न पश्यन्ति । इत्येवमादिभूतं' सर्वाश्चर्यमयम् श्रप्रदृष्टधृतमदृष्ट*रूपं च° ज्योतिश्चक्रं प्रधानवेदाङ्गप्रतिपाद्य सर्वपुरुषार्थप्राप्तये ज्ञेयम् । एतच्चादृष्टरूपत्वाद् बुद्धी नास्पद लभते । अत: काष्ठादिभिर्बध्वा तत्संस्थान'0 प्रदश्र्यते । तद्यथायावत्तावत् प्रमाणं वेण्वादिमयं समवृत्तपञ्चकं कृत्वा तेष्वेकं षष्टयङ्काङ्कितम्, श्रन्यानि षष्टिशतत्रयाङ्कितानि च कुर्यात् । ततः षष्टचङ्काङ्कितमण्डलं पूर्वापरमध ऊर्ध्वं विन्यस्य, ग्रन्येष्वेकं दक्षिणोत्तरमुपर्यधश्च जनितस्वस्तिकं विन्यस्य, ग्रन्यत् तयोर्बहिः परिकरवत् तद्दिक्चतुष्टयजनितस्वस्तिकं निदध्यात् । तत्र प्रथमं घटिकामण्डलम् । द्वितीयं दक्षिणोत्तरम् । तृतीयं लङ्काक्षितिजमुन्मण्डलम्' । ततोऽन्यद्वृत्तं पूर्वापरस्वस्तिकयोर्लग्नम् उपरिस्वस्तिकाद्दक्षिणेन श्रप्रधःस्वस्तिकाच्चोत्तरेण दक्षिणोत्तरमण्डले चतुविशतिभागे बध्नीयात् । तद् विषुवन्मण्डलाद्, दक्षिणत उत्तरत'श्चापक्रान्तत्वाद् अपक्रममण्डलम्, अपमण्डलम् इति चोच्यते । ग्रस्यैव द्वादशांशो राशिः । तत्र पूर्वस्वस्तिके मेषस्यादिः, ग्रधःस्वस्तिके कर्कटादिः, श्रप्रपरस्वस्तिके तुलादिः, उपरिस्वस्तिके मकरादिः । एवमिदं द्वादशराश्यात्मकं वृत्तम् । तेन भवर्गमित्युच्यते' । एतद्वशात्'* satsat-1. D. E. feed for a 2. E. 3raiti 3. E. उभर्य: 4. C. प्रदशर्यन्ते 5. B. Hapl. om. : T2TFeyfa [to TTF faitā) MTất, three lines below. 6. D. स्थां 7. E. मादिरूप 8. B. Hap. om. of 't Hesse' 9. E. om. E 10. C. FTFFETTĦ 11. B. क्षितिर्ज मण्डलम् 12. B. C. दक्षिणोत्तरत 13. E. भवर्गमप्युच्यते 14. A. B. C. एतद्द्वादशभागातू