पृष्ठम्:आर्यभटीयम्.djvu/171

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्लोकः | गोलबन्धः ዓሞቘ एवं सर्वे भूमेरुपरिस्थिताः । भूश्च सर्वेषामधः प्राणिनां धर्माधर्मधृता' । एवं भूसंस्थानम् । तत्परितो ज्योतिश्चक्र कक्ष्याष्टकात्मकम्, मेरुबडवामुखावभेदि अष्टात्म'- काक्षाग्रप्रविष्टम् श्रप्रक्षाग्रस्थध्रुवोपेतं रथचक्रवत् प्रवहवायुप्रेरितं लङ्कासमपश्चिमगं* भ्रमति । तत्र लङ्कादिनगरचतुष्टय-समाधऊर्ध्वस्थितं षष्टिघटिकाविभक्तं घटिकामण्डलम् । लङ्कामेरुसिद्धपुरबडवामुखाधऊर्ध्वस्थितत्वेन क्लृप्तं दक्षिणोत्तरमण्डलम् । लङ्कायाः परितो मेरुयवकोटिबडवामुखरोमकाधऊध्वंस्थितत्वेन' क्लृप्तं मण्डलम् उन्मण्डलसंज्ञं लङ्काक्षितिजम् । तत्'-घटिकावृत्तसम्पातद्वयप्रापि घटिकादक्षिणोत्तरमण्डलोपरिसम्पाताद् दक्षिणेनाधःसम्पाताचंचोत्तरेण चतुविंशतिभागप्रापित्वेन क्लुप्तं रवि-पात-भूच्छायानाम् मार्गः ग्रपमण्डलम् । तस्यैव द्वादशभागो राशिः । पूर्वस्वस्तिके मेषादिः, श्रधः कक्र्यादि, पश्चात्तुलादिः, उपरि मृगादि:* । मकरादिषट्कमुत्तरायणम् , कक्र्यादिषट्कं दक्षिणायनम् । एवम् श्रष्टकक्ष्याः पूर्वोक्तक्रमेण स्थिताः । श्रपमण्डलाद् दक्षिणोत्तरतः पात°प्रापिविक्षेपमण्डलानि रविवर्ज'" क्लुप्तानि, चन्द्रादीनां भ्रमणाश्रयाणि। एवं ग्रहाश्च नक्षत्राणि 'चादृष्टरूपेष्वाश्रयेषु स्थिताः । ते चाश्रयाः परस्परसंश्रयाद्'* एकावयवित्वं प्राप्ताः ज्योतिश्चक्रवाच्या भवन्ति । तेन ग्रहादयः सर्वे ज्योतिश्चक्रस्थाः तच्चलन°वशाद् भुवः' प्रत्यहमेकं प्रदक्षिणं" कुर्वन्ति । ग्रहास्तु स्वाश्रयेषु स्थिताः प्रतिदिनं" स्वगत्या'? गच्छन्तीत्यादि सर्वमवबोद्धव्यम् । व्याख्या-1. B. धर्माधर्मभृताम् ; D. धर्माधर्मस्मृता। 2. B, C, tr, 38Arria. Iseart 3. D. वभेद्याष्टात्मक; E. वहेन्यदृष्टात्मक (?) 4. D. E. पश्चिम 5. E. ऊध्वायतत्वेन 6. E. लङ्काक्षितिज- for तत्- 7. E. भूच्छायामार्गः 8. B. Hapl. om. of Tifèr: 9. B. C. om. qfa (wr.) 10. E. रविकक्ष्यावर्ज 11. B. C. D. IT for T-F ; E. Tą ta 12. A. B. C. defective : A. C. 4 gą rfą; C. 4 *ft for चाश्रयाः परस्परसंश्रयात्; D. om. परस्परसंश्रयात् 13. A. तचचक्र for तचचलन 14. B. C. om. भूव: ; E. भुवं भुवः 15. E, tr. प्रदक्षिणमेकं प्रत्यहं 16. A. दित्रस 17. A. om. Eą"FETT; E. adds TT5