पृष्ठम्:आर्यभटीयम्.djvu/143

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्लोकः ७ ।। संवत्सरप्रमाणम् $ፃ पित्र्यं द्वादशगुणितं दिव्यं वर्षे समुदृष्टं ॥ ७ ॥ पूर्वोपदिष्टम् रविवर्षे * मनुष्याणाम् वर्षप्रमाणम् भवति । तन्मानुष्यम् वर्ष त्रिशद्गुणितम् पित्र्यम् एकम् वर्षं स्यात्' । रविवर्षाणि त्रिशत् पित्णामेकं वर्षम् इत्यर्थः । पित्णामेकम् वर्ष द्वादशगुणितम् देवानामेकतम् वर्षम्* ॥ रविवर्षाणाम् षष्टिशतत्रयम् देवानामेकम् वर्षमित्यर्थः । एतद् गोलपादे व्यक्तम्' । एवम् सप्तमम् सूत्रम्। ७ ।। [ कल्पप्रमाणम् ] कल्पप्रमाणानयनमाह'- दिव्यं वर्षसहस्रम् ग्रहसामान्यं युगं द्विषट्कगुणम् । अष्टोत्तरं सहस्रं ब्राह्मो दिवसो ग्रहयुगानाम् ॥ ८ ॥ वर्षाणां सहस्रं वर्षसहस्रम् । दिव्यं देवकालभवमित्यर्थः । तद् द्वादशगुणितम् युगप्रमाणम् भवति । ग्रहसामान्यं यस्यादावन्ते च ग्रहास्सर्वे समलिप्तीभूताः तत्र’ प्रहसामान्यं युगं रविवर्षाणां खचतुष्टयरदवेदसंख्यम् (43,20,000) । तेषां प्रहयुगानाम् अष्टोत्तरं सहस्रं ब्राह्मो दिवसः ॥ तावत्प्रमाणा रात्रिश्च । तस्य विधेरहोरात्रं कल्पद्वयमित्युक्तम् ॥* एवमष्टमं सूत्रम् ॥ ८ ॥ व्याख्या-1. A. C. पूर्वोपदिष्टम् - 2. E. रवेवर्षे 3. भवति for स्यात् 4. D. E. add Haft 5. E. adds sci: 6. E. चतुर्युगब्रह्मदिनप्रमाणमार्ययाह 7. D. 8. E. has an entirely diff, version of the commentary : दिव्यानां वर्षाणां सहस्रं द्विषट्कगुणम् द्वादशगुणितम् ग्रहसामान्यम् युगम् भवति । दिव्याब्दाना द्वादशसहस्राणि एकरुय ग्रहसामान्ययुग रुय प्रमाणमित्यर्थः ॥ एतेषां ग्रहयुगानामष्टोत्तरं सहस्रे ब्राह्मो दिवसः । ब्रह्मदिवसप्रमाणमित्यर्थः ॥ ‘काहो मनवो ढः' (गीतिका० 5) इत्यस्यैवायं प्रपञ्चः । ग्रहसामान्यं युगमिति कोऽर्थः ? योगो युगम् । लङ्कामध्यमाकर्णोदयकाले मीनमेषसिद्धिस्थो [?सन्धिस्थो ] यो ग्रहो यावद्भिः दिनैः पुनस्तस्मिन्नैव