पृष्ठम्:आर्यभटीयम्.djvu/142

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Vo कालक्रियापादे sţste ग्रहस्य मन्दोच्चस्य शीघ्रोच्चस्य पातस्य वा युगभगणा लभ्यन्ते, ग्रनेनाहगणेन कियन्त इति । लब्धा यातभगणाः । शेषे द्वादशादिगुणिते' राश्यादिलब्धिः । एवं' लङ्कायाँ मध्यमार्कोदयकालिको ग्रहादिमध्यमो भवति । एवमानीतेन्दुमन्दोच्चे रशित्रयं क्षिपेत । पाते राशिषट्कम् । स चक्राच्छोध्यः । शेषो मेषादिकः पातमध्यमः । तदुक्तम्*- पर्ययाहर्गणाभ्यासो ह्रियते भूदिनैस्ततः ॥ लभ्यन्ते पर्ययाः शेषाद्राशिभागकलादयः । भास्करैस्त्रिशता षष्टया संगुणय्य पृथक् पृथक् ॥ तेनैव भागहारेण लभ्यन्तेऽकॉदयावधेः । विलिप्तान्ता ग्रहा मध्याः, शश्युच्चे राशयस्त्रयः ॥ क्षिप्यन्ते, षट् तमोमूतौ, चक्रात् स च विशोध्यते ॥ (लघुभास्करीयम् , 1. 15-17) इति । श्रप्रत्र चन्द्रोच्चस्य कलियुगादौ मेषादिराशित्रयं भुक्त्वा स्थितस्य कलियातदिनानीते° कक्यििदके° मध्यमे मेषादित्वाय° तत्क्षेपः । विलोम*राशिषट्र्क भुक्त्वा स्थितस्य तस्य' पातस्य" कन्यादिके मध्यमे मीनादित्वाय तत्क्षेपः । चक्रशोधनं तु' मेषादित्वायेत्यवगन्तव्यम् । एतन्मध्यमानयनमपि न्यायसिद्धत्वात् सूत्रकृता नोक्तम् ।। इति षष्ठं सूत्रम् ।। ६ ।। [ संवत्सरप्रमाणम् ] मनुष्यपितृदेवानां संवत्सरप्रमाणमाह'- रविवर्षे मानुष्यं तदपि त्रिंशद्गुणं भवति पित्र्यम् । व्याख्या-1. A. द्वादशगुणिते 2. E. HIT Tą for qaf 3. B. C. आनीते इन्दु 4. E. तदप्युक्तम् - 5. E. कलियाते 6. B. om. F#affo. 7. E. om. èfèktąIT 8. B. विलोमं; D, विलोम: 9. B. om. FÖRF 10. D. E. भुक्तवतः पातस्य 11. E. चक्रविशोघनमपि 12. E. प्रमाणमार्ययाह