श्लोकः २८ ] व्यस्तविधिः ६७ [ ध्यस्तविधिः ] विपरीतगणितप्रदर्शनार्थमाह'- गुणकारा भागहरा भागहरास्ते भवन्ति गुणकाराः । यः क्षेपः सोऽपचयो ऽपचयः क्षेपश्च विपरीते' ।। २८ ॥ ये पूर्व गुणकारास्ते विपरीते गणिते' भागहाराः, ये पूर्व भागहाराष्स्ते गुणकाराः । यः पूर्वं क्षेपः सोऽत्रापचयः, यः पूर्वमपचयः स इदानीं क्षेपो भवति । एतच्चोपलक्षणार्थं वर्गादीनामपि, वर्गो मूलम्, मूलं वर्गश्च स्यात् । यदाह*- ‘वर्गः पदं पदं कृतिः' (ब्राह्मस्फुटसिद्धान्तः, कुट्टक. 14) इति । उद्देशक:- श्रेढीक्षेत्रस्य प्रथमोदाहरणे ग्राद्यानयनार्थ न्यासः-ग्रादि: 2, उत्तरम् 3, गच्छ: 5. फलम् 40. गच्छेन हत्वा फलमानीतमिति 'तद्गच्छेन विभज्य लब्धम् 8. उत्तरगुणितं व्येकपदार्ध मुखे क्षिप्तमिति व्येकपदार्धमेतत् 2, उत्तरेण : हत्वा 6, विशोध्य शेषम् ग्रादि: 2. उत्तरानयनेऽपि पूर्ववत् पदेन विभज्य लब्धम् 8. श्रप्रस्मिन् मुखस्य क्षिप्तत्वात् तदपास्य जातम् 6, व्येकपदार्धेन गुणितत्वात् तेन विभज्य लब्धम् उत्तरम् 3. एवमन्यत्राप्यूह्यः' । इत्यष्टाविंश सूत्रम्। २८ । [ सर्वधनम् ] राश्यूनक्रमेण सङ्कलितैर्धनै:' सर्वधनानयनमाह— राश्यूनं i Yra wr गच्छधनं पिण्डितं पृथक्त्वेन । व्येकेन पदेन हर्त सर्वधनं तद् भवत्येव ॥ २& ॥ मूलम्- 1. A. C. क्षेपश्च भवति विपरीते व्याख्या-1. E. नार्थमार्ययाऽऽह 2. D. E. विपरीतगणिते 3. B. तदाह 4. E. om. IT 5. B. D. त्राप्यूह्यम् ; E. त्राप्यूहनीयम् 6. D. E. om. घनैः 7. A. सफलानयनमाह (wr.); E. नयनमार्ययाऽऽह
पृष्ठम्:आर्यभटीयम्.djvu/119
दिखावट