पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/८७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
55
द्वितीयप्रश्नः

 अथ ज्ञापनार्थं तदुत्पादकान्यङ्गान्याह--शिर इति ॥

 शिरःपाणिपादपार्श्वपृष्ठोरूदरजङ्घशिश्नोपस्थपाय्वङ्गानि भवन्ति ॥ ६ ॥

 एतानि मातुर्गर्भाशये स्रवन्ति । तत्तदङ्गान्याविर्भवन्तीत्यर्थः । ते रसा गर्भाशयमुखं पुष्णन्तीत्यर्थः । गर्भाशयगतोष्मणा मातुः पादपार्श्वपृष्ठोदरजङ्घशिश्नोपस्थेभ्यस्सारास्रवन्ति । तत्सारजन्यसाराः पार्श्वाद्यङ्गोत्पादकाः । तद्रसात्मकं चौजो भवति । अन्तर्वत्न्याः शिरोमांसाशयानां सारस्य गर्भे स्रावितत्वात् । गर्भाशये पवनप्रकोपस्य युक्तत्वात्, तदर्थं स्वादु रसवद्द्रव्यमद्यात् । अङ्गाविर्भावानन्तरं श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानामतिक्षत्वात् तत्तत्स्थितानि तत्तत्स्थानं विहाय गर्भाशयं प्रवेष्टुमयोग्यत्वात् श्रोत्रादीनामाविर्भावः कथं स्यादित्यस्वरसादाह-- श्रोत्रेति ॥

 श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणास्तथा ॥ ७ ॥

 सर्वेन्द्रियाणि सूक्ष्मशरीराण्यपि मातुस्स्वशरीरस्थितपञ्चभूतानां गर्भाशये उपलभ्यमानत्वात् । इन्द्रियादीनां तत्तद्गुणत्वादेव गुणिनमन्तरेण गुणावस्थानस्य वक्तुमयोग्यत्वात् तत्तद्भूतप्रवेशनात्तत्तदिन्द्रियसहिता एव गर्भाशयं प्रविशन्तीत्यर्थः । धात्वादीनां सारद्रव्यत्वेन स्वं स्वं स्वोष्मणा स्रवत्तत्तदाकृतिकार्यहेतुकमातृधातुस्रावितावयवो गर्भाशये कुणपावयवाभिवृद्धिहेतुककार्यं रसावकाशवद्भवतीति तस्मात्तयोः कार्यकारणभावो वक्तुं शक्यते । अत्र तु निराकृति द्रव्यं सरन्ध्रकं कथमन्यत्र प्रवेष्टुं शक्यते ? शिरःपाण्यादिवत्सावयवद्रव्यत्वाभावात् सावकाशप्रवेशानवकाशः । इदं तु निरवयवद्रव्यं स्वमातृस्थावयवसारं गर्भाशये स्रवतीति वक्तुमशक्यमित्यस्वरसादाह-- सरन्ध्रेति ।