ननु द्रवद्रव्यादनेन यावद्धातुतृप्ति भोजनं कृतं चेत् पञ्चविधपाचकपित्तमध्ये अत्यग्निना पचति चेत् तत्पाचितान्नं धातुप्रदं न भवति । तत्सावशेषपचनमपि न क्रियते । तस्मादाशया रिक्तीभूतास्सन्तः तद्वदजीर्णवदन्नप्रकोपं कुर्वन्तीत्यस्वरसादाह-- रिक्त इति ।
रिक्ते वायुः प्रकुप्यते ॥ ६६ ॥
तत्र सूत्रवचनं--
इति शारीरवचनम् । अत्यग्निना द्रवीभूतत्वेन कालादन्नमपि सावशेषाभावपचनात् आशया रिक्तीभूताः । तेष्वाशयेषु वायुः प्रवर्धते । अनिलस्य रूक्षगुणवद्द्रव्यत्वात् । आशये रिक्ते सति वायुः प्रकुप्यत इत्यर्थः । तत्र रुक्षो लघुस्सितः खरस्सूक्ष्मश्चलोऽनिलः । अग्निप्रज्वलनहेतुभूतेन्धनसंयोगे सति ज्वलनं भवेत् । आशयानां रिक्तीभूतत्वेन अनलस्य ज्वलनहेतुकद्रवद्रव्याभावेन ग्रहणीकलायाः स्वप्रज्वलनगुणवत्त्वेन स्थातुमशक्यत्वादित्यस्वरसादाह-- अनलेति ।
अनलोऽल्पो भवति ॥ ६७ ॥
वस्तुतस्तु इदमप्यनुपपन्नं, आमाशये रिक्ते सति पवनप्रकोपकार्यं प्रति हेतोरदृष्टत्वात् । अनामयकार्यकारणत्वं अना