पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२११

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
179
चतुर्थप्रश्नः

वत्सिरावच्छरीरंभवति पवनविगत्याधारकसिराणां तत्तद्गतितिरोधानकारकद्रव्यं किं वक्तव्यम् ? तत्पवनप्रकोपकारकं भवति । न तावद्धातुशोषकं, किंतु वेदना रोगकार्यं भवातीत्यर्थः ।

 ननु सर्वद्रव्येषु मधुररसः पवनप्रकोपनिवर्तको भवति । स्थावरजातिस्थितमधुररसः पवनप्रकोपकारकः । जङ्गमादिस्थितमधुररसवद्द्रव्यं पवनप्रकोपहारकम् । तथाऽपि उभयमपि परमधातुपोषकम् । स्थावराणां स्वादुरसः रसासृग्धातुविकारकः । जङ्गमानां स्वादुरसः सर्वधातुपोषको भवतीत्याशयं मनसि निधाय प्रजाजननहेतुं प्रतिपादयति--प्रजेति ।

 प्रजोत्पोदकहतुभूतं भवति ॥ ३९ ॥

 जङ्गमानां मांससारः पयोविकारो भवति । तत्सजातीयान्यसारोऽपि सर्वशरीराणां धातुरसस्स्वादुरेव भवति । तत्स्वादुरसः प्रजाजननकारकः रेतोधातुविकारहारकद्रव्यत्वात् । खेचराणामण्डजस्वादुरसः पवनप्रकोपहारकः । भूचरशरीरजातक्षीरविकारजाताः पवनहरशुक्लधातुपोषका इत्यर्थः । स्थावरद्रव्यनिष्ठमधुररसानामिक्षुकाण्डादिजन्यानां सर्वधातुपोषकत्वं वक्तुमशक्यत्वात्, स्थावररसात्मकत्वात् तन्निष्ठस्वादुरसो गुरुर्भवतीत्यस्वरसादाह--मधुरेति ।

 [१]मधुररसादनादसृग्धातुर्भवति ॥ ४० ॥

 स्थावरनिष्ठमधुररसादनं जङ्गमशरीराणां रसासृग्धातुप्रव

  1. मधुरेति सूत्रात्प्राक् 'शरीररससारस्सर्वमावहति" इत्यधिकः पाठः A. B. कोशयोः.