पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/१५१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
119
तृतीयप्रश्नः

 सार्द्रद्रव्यं नाम अप्पयश्च मूत्रं च मधु च तैलं च घृतं च, इदं सार्द्रद्रव्यं भवति । एतद्योगकरणं विशिष्य ज्ञाप्यत इत्यर्थः ।

 ननु पोषकद्रव्ययुक्ताल्पशोषककल्पकद्रव्ययोगं भेषजं निवर्तकं भवेदिति प्रतीयते । इदानीं केवलं सार्द्रद्रव्ययोगकरणेन किं फलं भवेदित्यस्वरसादाह--सस्नेहमिति ।

 सस्नेहमार्द्रं कार्यम् ॥ ४६ ॥

 स्नेहयुक्तद्रव्यं निवर्तकमिति यथोच्यते तथा पोषकद्रव्याधिक्यजातपार्थिवद्रव्यं चूर्णीकृत्यावपेत् । तत्पाककरणेन निर्द्रवं यथा भवति तथा अग्नौ विपाच्य तत्पानलेपनाभ्यङ्गावगाहनात्तत्तज्जन्यपञ्चेन्द्रियविषयकप्रमाप्रतिबन्धकं निवर्तयितुं तदेव भेषजं भवतीति न वक्तव्यम् । तत्र प्रत्यक्षप्रमाणेन संशयभ्रमयोर्निवारणस्य शक्यत्वात्, इत्याशयं मनसि निधाय प्रत्यक्षप्रमाणस्वरूपं विविच्यते-- चाक्षुषेति ।

 [१]चाक्षुषप्रतीतीतरजन्यभिन्नविषयकज्ञानप्रमा प्रमाणम् ॥ ४७ ॥

 चक्षुरिन्द्रियविषयकज्ञानानुभवे सति तदभाववति तत्प्रकारकत्वं तज्ज्ञानस्य यथा विषयो भवति तथा जाक्षुषप्रतीतिजन्येतरत्वं तद्भिन्नविषयकज्ञानं प्रमाणमिति ताद्दशप्रमाणेन भ्रमनिवृत्त्यां सत्यां तन्निवर्तकभेषजं विना तत्प्रमाणस्य ज्ञातुं शक्यत्वादित्यर्थः ।

 ननु कामिलारोगग्रस्तचक्षुषः अस्मिन् शङ्खे पीतविषयकज्ञाने जाते शङ्खः श्वेतः शंखत्वात् इत्यनुमानप्रमाणेन न पीतत्व

  1. चाक्षुषप्रतीतिजन्येतरभिन्नविषयकज्ञानं प्रमाणम्.