पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/१४५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
113
तृतीयप्रश्नः

 यावदाहारपरिणामजाताः क्लिष्टाः ॥ २९ ॥

 यावद्दिनभोजनमपि आशयानां क्लेशकारकम् । हीनभोजनमपि आशयानामतिक्लेशकारकम् । तदुभयमपि पथ्यं न भवतीति कृत्वा सूत्रमेव आक्षिपतीत्यर्थः ॥

 क्लिष्टाः क्लेशाः, अक्लिष्टा अक्लेशाः ॥ ३० ॥

 क्लिष्टाः क्लेशा भवन्ति । अक्लिष्टा अक्लेशा भवन्तीत्यर्थः ॥

 ननु हीनभोजनाज्जातरोगस्य अतिभोजनमपि पथ्यं न भवति । अतिभोजनाज्जातरोगस्य हीनभोजनमपि पथ्यं न भवति । उभयोरपि निवर्तकं वक्तुं न शक्यत इत्यस्वरसादाह-- यावदिति ।

 यावत्प्रस्तुतमहरहर्भेषजम् ॥ ३३ ॥

 अहरहर्भुक्तानामजीर्णाभावकरणेन आशयानां भुक्त्तत्वं यत्र भाति । आशया निर्दुष्टास्सन्तः यत्रेन्द्रियाणामरोगत्वप्रतिपादनं तावद्गोचरज्ञानमेव तद्वति तत्प्रकारकत्वं वक्तुं शक्यत इत्यर्थः ॥

 ननु आशयेषु रिक्तेषु वातप्रकोपो भवतीति पूर्वं प्रतिपादितम् । इदानीमपि यावद्रोगाणां प्रस्तुतत्वं नाम आमाशयस्य भुक्तकरणत्वं वक्तव्यम् । तथा सति प्रत्यहं रिक्तकरणत्वं न योग्यमित्यस्वरसादाह-- यावदिति ।

 यावदुद्भूतशोषकगुणजाता रुजः [१]तत्तदुद्भूतपोषकद्रव्यं तत्र भेषजम् ॥ ३२ ॥

 यावत्कार्याणां कारणीभूतरसवद्द्रव्याविर्भूतशोषकद्रव्यजातरुजां निवर्तकीभूतनिष्ठपोषकद्रव्यं तावद्रोगाणां भेषजं निवर्तकं भवतीत्यर्थः ॥

 AYURVEDA.
15
 


  1. तत्तद्भूतहितगुणवत्पोषकद्रव्यं.