पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

612 श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [ स्वं २७, सू ८. 'अपि वा पञ्च पार्थिवान् संभारानाहरति एवं वानस्पत्यान् ॥ ८ ।। ५२ ।। ११५२ ।। [पुन पञ्चविधान नियमार्थम् ] (भा) पुनःपञ्च (विधाना ) वचना त्सप्त न लभ्यन्ते भूयांसोऽपि न लभ्यन्ते ॥ [पुनः पञ्चविधानाशयान्तरपक्षः] केचिदयजुः पक्षेऽपि पश्चेच्छन्ति । [नियमस्संभारेषु] 8 ये यस्यामयाघेयेन कृतास्सभारा तस्य नियताः । इह कृत- यजुरिति लिङ्गात् || - (बृ) पुनःपञ्च - भ्यन्ते – अस्यार्थ – कृताकृता इति विकल्पविधि । - - सप्तपञ्चसङ्ख्ययोरविशेषेण कर्तव्याकर्तव्यत्वे | आघानयजुषा च सम्भारै- स्सह प्रवृत्तिनिवृत्ती । न सम्भृत्याससम्भारा न यजुः कर्तव्यमित्यथो खलु सम्भृत्य एव सम्भाराः कर्तव्य यजुर्यज्ञस्य समृद्ध्यै इति प्रवृत्तिनिवृत्त्योस्साहित्यवचनात् । अपि वा पञ्च पार्थिवानिति पञ्चसङ्ख्या- नियमविधिरिति || [अयजुःपक्षेऽपि पञ्चपरिग्रहोपपत्तिः] - केचिदय - च्छन्ति — अपिवा पञ्च पार्थिवानिति । यजुषोऽ- भावेऽपि सम्भारपञ्चत्वनियमार्थं पुनर्विधानमिति ॥ [सम्भारेषु नियमोपपत्तिः] यस्याग्नद्या – रितिलिङ्गात् —न सम्भृत्यास्सम्भारा इत्यस्य हेतुत्वेन कृतयजुस्सम्भृतसम्भार इति निर्देशात् ॥ 1 पूर्वसूत्रे द्वौ कल्पावुक्तौ सप्तकादिषु सभारकल्पेषु अनियमेनान्यतम पक्षस्स्यादित्येक । न कञ्चिदिति द्वितीयः तृतीयम्त्वयंकल्पा नियमेन पञ्चकल्पस्स्या- मान्य इति (रु) त्सप्त गृह्यन्ते केचित्-ग. 3 यस्यामया ख ग घ. 2