पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं. २४, सू ४] आपस्तम्बश्रौतसूत्रे पञ्चमे प्रश्न सप्तमः पटल (सू) 1 चित्तं च चित्तिश्चेति पुरस्तात् स्विष्टकृतो जयान् जुहोति ॥ १ ॥ १ ॥ १११० ॥ चित्ताय स्वाहा चित्त्यै स्वाहेत्येक समामनन्ति ।। २ ।। २ ।। ११११ ॥ [जयेषु विभक्तिविकल्पः] (भा) चित्ताय स्वाहा चित्तयै स्वाहाऽऽकूताय स्वाहेति चतुर्थ्या विभक्तया सर्वे होमाः ॥ (सू) 2 प्रजापतिर्जयानिति त्रयोदशीम् ॥ ३ ॥ ३ ॥ (सू) (भा) (सू) ॥ १११२ ॥ 587 [क्वचिच्छुतैव विभक्तिः] अविकृता त्रयोदशी । एवमुत्तरा ॥ 3 [ कामनाविशेषे चतुर्दशी] अग्ने बलद सह ओजः क्रममाणाय मेदाः । अभिशस्ति कृतेऽनभिशस्तेन्यायास्यै जनतायै श्रैष्ठयायेति चतुर्दशीं यः कामयेत चित्रं जनतायां [अविकृतपरिग्रहे हेतुविवरणम्] (वृ) अविकृता त्रयोदशीति -- जयान् जुहोतीत्येतावता प्रजापति - र्जयानित्यस्य सिद्धौ प्रजापतिर्जयानिति त्रयोदशीमिति पुनरुपादान चतुर्थ्यन्त पक्षेऽप्यविकृता त्रयोदशीति दर्शयितुम् || एवमुत्तरा - चतुर्दश्यप्यविकृता । 1 उपहोमकालादेव सिद्धे पुरस्तात् स्विष्टकृत इति पुनर्विधानं प्राङ्नारिष्ठेभ्यो ( प्राग्वा समिष्टयजुष इति (रु) 2 प्रजापतिर्जयानित्यादे रेकमन्त्रत्वस्य ख्याप- मा नार्थं वचनम्, चतुर्थ्यन्तप्रयोगेऽप्यधिकारार्थं च (रु). 8 तथोत्तरा - ग.